Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

bagalāmukhī brahmāstra kavacam

बगलामुखी ब्रह्मास्त्र कवचम्

Verse

कैलासाचलमधऽयगं पुरवहं शान्तं त्रिनेत्रं शिवम् । वामस्था गिरिजा प्रणम्य कवचं भूतिप्रदं पृच्छति ॥

Verse

देवी श्रीबगलामुखी रिपुकुलारण्याग्निरुपा च या । तस्याशऽचापविमुक्त-मन्त्र-सहितं प्रीत्याधुना ब्रुहिमाम् ॥१॥

Verse

॥ श्री शंकर उवाच ॥

Verse

देवी श्री भववल्लभे श्रृणु महामन्त्रं विभूतिप्रदम् । देव्या वर्मयुतं समस्त-सुखदं साम्राज्यदं मुक्तिदम् ॥

Verse

तारं रुद्रवधू विरिञ्चिमहिला विष्णुप्रिया कामयुक् । कान्ते श्रीबगलानने मम रिपून् नाशय युग्मं त्वति ॥२॥

Verse

ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं । कार्यं साधय युग्मयुच्छिववधूवह्निप्रियान्तो मनुः ॥

Verse

कंसारेस्तनयं च बीजमपरा शक्तिश्च वाणी तथा । कीलं श्रीमति भैरवर्षि-सहितं छन्दो विराट्संयुतम् ॥३॥

Verse

स्वेष्टार्थस्य परस्य वेति नितरां कार्यस्य सम्प्राप्तये । नानाऽसाध्यमहागदस्य नियतं नाशाय वीर्याप्तये ॥

Verse

ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वा सहस्राख्यकम् । दीर्घैः षट्कयुतैश्च रुद्रमहिलाबीजैर्विन्यस्यांगके ॥४॥

Verse

॥ ध्यानम् ॥

Verse

सौवर्णासन-संस्थितां त्रिनयनांपीतांशुकोल्लासिनीम् । हेमाभांगरुचिं शशांक-मुकुटांसच्चम्पकस्रग्युताम् ॥

Verse

हस्तैर्मुद्गरपाशवज्ररसनाः संबिभ्रतीं भूषणैः । व्याप्तांगीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥

Verse

विनियोगः- ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्र-मन्त्र-कवचस्य भैरव ऋषिः, विराट् छन्दः, श्रीबगलामुखी देवता, क्लीं बीजम्, ऐं शक्तिः, श्रीं कीलकं, मम (परस्य) च मनोभिलषितेष्टकार्य सिद्धये विनियोगः । ऋष्यादि-न्यासः- भैरव ऋषये नमः शिरसि, विराट् छन्दसे नमः मुखे, श्रीबगलामुखी देवतायै नमः हृदि, क्लीं बीजाय नमः गुह्ये, ऐं शक्तये नमः पादयोः, श्रीं कीलकाय नमः नाभौ, मम (परस्य) च मनोभिलषितेष्टकार्य सिद्धये विनियोगाय नमः सर्वांगे । षडङ्ग-न्यास कर-न्यास अंग-न्यास ह्रां अंगुष्ठाभ्यां नमः हृदयाय नमः ह्रीं तर्जनीभ्यां नमः शिरसे स्वाहा ह्रूं मध्यमाभ्यां नमः शिखायै वषट् ह्रैं अनामिकाभ्यां नमः कवचाय हुं ह्रौं कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट् ह्रः करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट् मन्त्रोद्धारः- ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय, ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्रीं स्वाहा । ॥ कवच-पाठ ॥

Verse

शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् । सम्बोधन-पदं पातु नेत्रे श्रीबगलानने ॥१॥

Verse

श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् । पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ॥२॥

Verse

देहिद्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम । कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ॥३॥

Verse

कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम । मायायुक्ता तथा स्वाहा, हृदयं पातु सर्वदा ॥४॥

Verse

अष्टाधिकचत्वारिंशदण्डाढया बगलामुखी । रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥५॥

Verse

ब्रह्मास्त्राख्यो मनुः पातु सर्वांगे सर्वसन्धिषु । मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ॥६॥

Verse

ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु । मुखिवर्णद्वयं पातु लिंग मे मुष्क-युग्मकम् ॥७॥

Verse

जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् । वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी ॥८॥

Verse

जंघायुग्मे सदा पातु बगला रिपुमोहिनी । स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥९॥

Verse

जिह्वावर्णद्वयं पातु गुल्फौ मे कीलयेति च । पादोर्ध्व सर्वदा पातु बुद्धिं पादतले मम ॥१०॥

Verse

विनाशयपदं पातु पादांगुल्योर्नखानि मे । ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे ॥११॥

Verse

सर्वांगं प्रणवः पातु स्वाहा रोमाणि मेऽवतु । ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ॥१२॥

Verse

माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु । कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३॥

Verse

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु । ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ॥१४॥

Verse

इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः । राजद्वारे महादुर्गे पातु मां गणनायकः ॥१५॥

Verse

श्मशाने जलमध्ये च भैरवश्च सदाऽवतु । द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥१६॥

Verse

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम । इति ते कथितं देवि कवचं परमाद्भुतम् ॥१७॥

Verse

॥ फल-श्रुति ॥

Verse

श्रीविश्वविजयं नाम कीर्ति-श्रीविजय-प्रदम् । अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ॥१८ निर्धनो धनमाप्नोति कवचस्यास्य पाठतः । जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् ॥१९॥

Verse

पठेदिदं हि कवचं निशायां नियमात् तु यः । यद् यत् कामयते कामं साध्यासाध्ये महीतले ॥२०॥

Verse

तत् यत् काममवाप्नोति सप्तरात्रेण शंकरि । गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्ति-समन्वितः ॥२१॥

Verse

कवचं यः पठेद् देवि तस्यासाध्यं न किञ्चन । यं ध्यात्वा प्रजपेन् मंत्रं सहस्रं कवचं पठेत् ॥२२॥

Verse

त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः । लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ॥२३॥

Verse

लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन् मनुम् । एकविंशद्दिनं यावत् प्रत्यहं च सहस्रकम् ॥२४॥

Verse

जप्त्वा पठेत् तु कवचं चतुर्विंशतिवारकम् । संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा ॥२५॥

Verse

विवादे विजयं तस्य संग्रामे जयमाप्नुयात् । श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥२६॥

Verse

नवनीतं चाभिमन्त्र्य स्त्रीणां सद्यान् महेश्वरि । वन्ध्यायां जायते पुत्रो विद्यावल-समन्वितः ॥२७॥

Verse

श्मशानांगारमादाय भौमे रात्रौ शनावथ । पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ॥२८॥

Verse

भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत् । हस्तं तद्धदये दत्वा कवचं तिथिवारकम् ॥२९॥

Verse

ध्यात्वा जपेन् मन्त्रराजं नवरात्रं प्रयत्नतः । म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥३०॥

Verse

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् । धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा ॥३१॥

Verse

संग्रामे जयमाप्नोति नारी पुत्रवती भवेत् । ब्रह्मास्त्रदीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ॥३२॥

Verse

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् । वृहस्पतिसमो वापि विभवे धनदोपमः ॥३३॥

Verse

कामतुल्यश्च नारीणां शत्रूणां च यमोपमः । कवितालहरी तस्य भवेद् गंगा-प्रवाहवत् ॥३४॥

Verse

गद्य-पद्य-मयी वाणी भवेद् देवी-प्रसादतः । एकादशशतं यावत् पुरश्चरणमुच्यते ॥३५॥

Verse

पुरश्चर्या-विहीनं तु न चेदं फलदायकम् । न देयं परशीष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥३६॥

Verse

देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात् । इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम् । शतकोटि जपित्वा तु तस्य सिद्धिर्न- जायते ॥३७॥

Verse

दाराढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् । ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेष्टगन्धेन वै धृत्वा राजपुरं ब्रजन्ति खलु ये दासोऽस्ति तेषां नृपः ॥३८॥

Verse

॥ श्रीविश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखी कवचम् ॥

Verse

इस कवच में प्रयुक्त मंत्र के जप एवं सम्पुटित दुर्गा पाठ कराने पर शत्रुनाश, प्रेतदोषशमन, आर्थिक उन्नति आदि के सफल प्रयोग किये जा सकते हैं । षट्त्रिंशतात्मक (३६ अक्षर) मंत्र के विकल्प में इस मंत्र में मंत्रोच्चारण या ध्यान समय त्रुटि की सम्भावना भी नहीं रहती है ॥

॥ atha śrī saptamukhī hanumat kavacam ॥
āñjaneya kavacam

Read next

More on बगलामुखी ब्रह्मास्त्र

  • श्रीब्रह्मास्त्रबगलामुखीकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms