Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

paranāthakavacam

परनाथकवचम्

Verse

अथ पञ्चाशीतितमः पटलः । श्रीआनन्दभैरव उवाच वरानने वरारोहे सर्वज्ञाननिदानदे । आनन्दहृदयोल्लासे परमानन्दवर्धिनि ॥८५-१॥

Verse

कथितं कवचं पुण्यं रहस्यं चातिदुर्लभम् । न चोक्तं ज्ञानगम्यं तु महाजालनिसेवितम् ॥८५-२॥

Verse

परनाथस्य कवचं सार्वज्ञज्ञानसिद्धिदम् । इदानीं वद मे यत्नादानन्दकुलभैरवी ॥८५-३॥

Verse

श्रीआनन्दभैरवी उवाच श्रूयतां योगिनीनाथ योगविद्यापते प्रभो । परनाथस्य कवचं ज्ञानगम्यं पुरातनम् ॥८५-४॥

Verse

अतिगोप्यं योगसारं सर्वतन्त्रेषु दुर्लभम् । इदानीं नाथ यत्नेन कथयामि परं पदम् ॥८५-५॥

Verse

अस्य श्रीपरनाथमहाकवचस्य सदाशिव ऋषिः परमात्मा देवता ह्सौः बीजं ज्ञानशक्तिरानन्दं कीलकं सर्वाभीष्टसिद्ध्यर्थे विनियोगः । ॐङ्कारं वेदबीजं मे सदा पातु शिरोधनम् । ह्सौः महाप्रेतराजः कपालं पातु सर्वदा ॥८५-६॥

Verse

हाकिनीशः सहायाख्यः कामकेशगुणानि मे । वाराणसीपुरः पातु भ्रूमध्यपरदेवता ॥८५-७॥

Verse

षं रं शं वं सदा पातु हं क्षं पातु भ्रुवोर्दलम् । बाणलिङ्गं सदा पातु भ्रूपद्मयुवती मम ॥८५-८॥

Verse

कालानलः सदा पातु द्विदलस्थं परात्परम् । भ्रूगह्वरं सदानन्दं पातु त्रिपुरभैरवः ॥८५-९॥

Verse

अनाथलिङ्गः सर्वेशः पातु मे लोचनत्रयम् । अभयो मङ्गलः पातु ध्रुवाख्ये लोलजिह्विकाम् ॥८५-१०॥

Verse

पञ्चाननः सदा पातु वदनं कामसुन्दरः । उन्मत्तभैरवेन्द्रोऽथ गण्डयुग्मं सदावतु ॥८५-११॥

Verse

हिरण्याख्यः सदा पातु दन्ताग्रालिं श्मशानगः । महादेवः सदा पातु महाकाशः श्रुती मम ॥८५-१२॥

Verse

विकटाख्यो मञ्जुघोषः सदा पातु हनुस्थलम् । प्रणवात्मा सदा पातु कण्ठं मे नीलकण्ठभृत् ॥८५-१३॥

Verse

अपराजितः शुक्लवर्णः सदा पातु महामला । गलदेशं महाकाशं त्रिपुरा परमेश्वरी ॥८५-१४॥

Verse

मृत्युञ्जयश्च घोराख्यो विशुद्धं सर्वदाऽवतु । स्वरानीश्वरसंयुक्तान् योगीशः सर्वदाऽवतु ॥८५-१५॥

Verse

वामदेवः सदा पातु हृदयं परमेश्वरः । ईश्वरः सर्वदा पातु परदेवः सदाशिवः ॥८५-१६॥

Verse

अट्टहासः सदा पातु योगिनीकोटिभिः सह । अकालचक्रः सर्वज्ञश्चावधूतेश्वरो भुजौ ॥८५-१७॥

Verse

महाकालः सदा पातु भेरुण्डापतिरीश्वरः । पार्श्वदेशं सदा पातु काकिनीपरवल्लभः ॥८५-१८॥

Verse

अच्युतेशः सदा पातु कुक्षियुग्मं सदा मम । अथर्वेशः सदानन्दः पातु पृष्ठं सुरेश्वरः ॥८५-१९॥

Verse

तपिनीपतिरीशानो वीरभद्रो यतीश्वरः । नाभिमण्डलमापातु ममोदरमुमापतिः ॥८५-२०॥

Verse

घर्घरः पातु सततं रुद्रं राकिणिवल्लभम् । जटाजूटधरः पातु रुद्राणीं रौद्रदेवताम् ॥८५-२१॥

Verse

नितम्बं पातु योगेन्द्रः प्रभाद्यो मे कटिस्थलम् । स्वाधिष्ठानं सदा पातु षड्दलान्तः प्रकाशकः ॥८५-२२॥

Verse

अभयः सर्वदा पातु भर्गः पातु चतुर्दलम् । तरुणीशः सदा पातु कुण्डलीं डाकिनीपदम् ॥८५-२३॥

Verse

गुदरन्ध्रं सदा पातु पार्वतीप्रियवल्लभः । यज्ञनाथः सदा पातु ऊरुयुग्मं स्वमन्त्रवित् ॥८५-२४॥

Verse

जङ्घायुगं सदा पातु धर्मलक्ष्मीश्वरः प्रभुः । महाकालः पातु पादतलयुग्मं महीश्वरः ॥८५-२५॥

Verse

सर्वाङ्गं वरदः पातु वटुकः श्रीसदाशिवः । महारुद्रः श्रीपतीशः सदा उग्रः प्रपातु माम् ॥८५-२६॥

Verse

रणे द्यूते विवादे च शून्यागारे महाभये । पाताले पर्वतेऽरण्ये पातु वाग्वादिनीश्वरः ॥८५-२७॥

Verse

घण्टेश्वरः शङ्खनादो मुरारीशः प्रपातु माम् । परमानन्ददः पातु हितार्थी पथि पातु माम् ॥८५-२८॥

Verse

महाविद्यापतिः पातु प्रेतराजः प्रपातु माम् । पुत्रं मित्रं कलत्रं मे बन्धुं स्वजनमेव च ॥८५-२९॥

Verse

सर्वाधारः सदा पातु लिङ्गरूपी महेश्वरः । परमात्मा सदा पातु गुह्यदेशस्थदेवताम् ॥८५-३०॥

Verse

परिवारान्वितः पातु महाचन्द्रः सदाऽवतु । मारणोच्चाटने स्तम्भे विद्वेषे पातु मोहनः ॥८५-३१॥

Verse

मोहने द्रावणे स्थैर्ये वश्ये शान्तौ सदाशिवः । परनाथो गुरुः पातु पारिजातवनाश्रयः ॥८५-३२॥

Verse

सर्वभुक् कालरुद्रो मे सर्वत्र परिपातु माम् । इत्येतत् कथितं सर्वसिद्धिदं कवचं शुभम् ॥८५-३३॥

Verse

परनाथस्य देवस्य सार्वज्ञज्ञानसिद्धिदम् । कवचं दुर्लभं लोके सर्वतन्त्रेषु गोपितम् ॥८५-३४॥

Verse

यामले देवदेवेश प्रकाशितमहर्निशम् । यः पठेदेकवारं तु स रुद्रो नात्र संशयः ॥८५-३५॥

Verse

कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् । अस्य स्मरणमात्रेण राजत्वं योगिनां पतिः ॥८५-३६॥

Verse

भवेत् कामक्रोधजेता मृत्युजेता महाकविः । तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥८५-३७॥

Verse

यः कण्ठे मस्तके वापि धारयेत् कवचं शुभम् । रक्तेन चन्दनेनापि कुङ्कुमेनापि वा लिखेत् ॥८५-३८॥

Verse

स भवेद् वीरपुत्रश्च महापातककोटिहा । अनायासेन देवेश योगसिद्धिमवाप्नुयात् ॥८५-३९॥

Verse

शतमष्टोत्तरं जप्त्वा पुरश्चर्याफलं लभेत् ॥८५-४०॥

Verse

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे परशिवकवचपाठो नाम पञ्चाशीतितमः पटलः ॥८५॥

padmāvatīkavacam
śrīparāmahāyonikavacasādhanā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms