kavaca
nandagopakṛtaṃ bālakṛṣṇarakṣākavacam
नन्दगोपकृतं बालकृष्णरक्षाकवचम्
Verse
नन्दगोप उवाच । रक्षतु त्वामश्षाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥१४॥
Verse
येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् । वराहरूपधृग्देवस्स त्वां रक्षतु केशवः ॥१५॥
Verse
नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः । नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥१६॥
Verse
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥१७॥
Verse
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः । गुह्यं च जठरं विष्णुर्जङ्घे पादौ जनार्दनः ॥१८॥
Verse
मुखं बाहू प्रबाहू च मनः सर्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥१९॥
Verse
शार्ङ्गचक्रगदापाणेश्शङ्खनादहताः क्षयम् । गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥२०॥
Verse
त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥२१॥
Verse
इति विष्णुपुराणे पञ्चमभागे पञ्चामाध्यायान्तर्गतं नन्दगोपकृतं बालकृष्णरक्षाकवचं समाप्तम्म् ॥
