Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

dakṣiṇakālikākavacam

दक्षिणकालिकाकवचम्

Verse

भैरव उवाच । कालिका या महाविद्या कथिता भुवि दुर्लभा । तथापि हृदये शल्यमस्ति देवि ! कृपां कुरु ॥१॥

Verse

कवचन्तु महादेवि ! कथयस्वानुकम्पया । यदि नो कथ्यते मातर्विमुञ्चामि तदा तनुम् ॥२॥

Verse

देव्युवाच । शङ्कापि जायते वत्स ! तव स्नेहात् प्रकाश्यते । न वक्तव्यं न दातव्यमतिगुह्यतरं महत् ॥१॥

Verse

(ॐ) कालिका जगतां माता शोकदुःखविनाशिनी । विशेषतः कलियुगे महापातकहारिणी ॥२॥

Verse

कालौ मे पुरतः पातु पृष्ठतश्च कपालिनी । कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥३॥

Verse

विरोधिनी शिरः पातु विप्रचित्ता च चक्षुषी । उग्रा मे नामिकां पातु कर्णौ चोग्रप्रभा तथा ॥४॥

Verse

वदनं पातु मे दीप्ता नीला च चिबुकं तथा । घना ग्रीवां सदा पातु वलाका बाहुयुग्मकम् ॥५॥

Verse

मात्रा पातु करद्दन्द्वं वक्ष्यो मुद्रा सदावतु । मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवताः ॥६॥

Verse

ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा । ऊरू माहेश्वरी पातु चामुण्डा पातु लिङ्गकम् ॥७॥

Verse

कौमारी च कटिं पातु जङ्घायुग्मं तथैव च । अपराजिता च पादौ मे वाराही पातु चाङ्गुली ॥८॥

Verse

सन्धिस्थानं नारसिंही पत्रस्था देवताऽवतु । रक्षाहीनञ्च यत्स्थानं वर्जितं कवचेन तु ॥९॥

Verse

तत्सर्वं रक्ष में देवि ! कालिके घोरदक्षिणे ! । ऊर्द्ध्वमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥१०॥

Verse

हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् । दक्षिणा कालिका देवी व्यापकं मे सदावतु ॥११॥

Verse

इदं कवचमज्ञात्वा यो भजेद्घोरदक्षिणाम् । न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥१२॥

Verse

कवचेनावृतो नित्यं यत्र तत्रैव गच्छति । तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥१३॥

Verse

इति श्यामारहस्ये देवीभैरवसंवादे तन्त्रान्तरोक्तं दक्षिणकालिकाकवचं सम्पूर्णम् । - ॥श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥

dakṣiṇakālikākavacam
dakṣiṇakālikāyāḥ sarvasiddhidaṃ kavacam

Read next

More on दक्षिणकालिकाकवचम्

  • श्रीमद्दक्षिणकालिकाकवचम्Kavach
  • श्यामारहस्ये दक्षिणकालिकाकवचम्Kavach
  • दक्षिणकालिकाकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms