Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

tulasīkavacam

तुलसीकवचम्

Verse

कवचं तव वक्ष्यामि भवसङ्क्रमनाशनम् । यस्य जापेन सिद्ध्यन्ति सर्वार्था नातियत्नतः ॥१॥

Verse

तुलसी पातु मे नित्यं शिरोवक्त्रोष्ठनासिकाः । श्रोत्रनेत्रललाटं च भ्रूकपोलं निरन्तरम् ॥२॥

Verse

श्रीसखी पातु मे कण्ठं भुजौ वक्षश्च कक्षकम् । पृष्ठं च पिठरं सर्वं स्तनं जानू च हृत्तटम् ॥३॥

Verse

शुभा पातूदरं नाभिं पार्श्वं हस्ताङ्गुलिं तथा । जाठरं वह्निमखिलं गुदं जघनगुह्यकम् ॥४॥

Verse

पापहारिण्यवतु मे ऊरू स्फिङ्मांसजानुकम् । पुण्यदाऽवतु मे जङ्घे पादौ नारदसेविता ॥५॥

Verse

यदुक्तं यच्च नोक्तं मे यद्बाह्यं यत्तथान्तरम् । सर्वाङ्गं पातु मे देवी नारायणमनः प्रिया ॥६॥

Verse

इतीदं कवचं दिव्यं तुलस्याः सर्वसिद्धिकृत् । त्रिसन्ध्यं यो जपेत्तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥७॥

Verse

प्राचीः षड् विलिखेद्रेखाः उदीचीं पञ्च चैव हि । सङ्ख्यानां विंशतिस्तत्र कोष्ठानां तु भविष्यति ॥८॥

Verse

कोष्ठे कोष्ठे लिखेत्पादं मन्त्रस्यास्य यथाक्रमम् । भूर्जे रोचनया विद्वान् कोष्ठं कुङ्कुममिश्रया ॥९॥

Verse

यस्य यन्त्रमिदं मूर्ध्नि भुजे कण्ठेऽथवा भवेत् । सङ्ग्रामे व्यवहारे च चोरव्याघ्रभयेषु च ॥१०॥

Verse

मारीभये वर्षभये निर्घात भयपीडिते । क्षयापस्मारपीडासु सर्पवृश्चिकलूल(त )के ॥११॥

Verse

तापज्चरेऽथवा शीते नेत्ररोगे च दुःसहे । न तस्य किञ्चिद् दुरितमिहामुत्र च जायते ॥१२॥

Verse

वन्ध्या या धारयेद्यन्त्रं अचिरात्पुत्रिणी भवेत् । इतीदं कवचं प्रोक्तं वादे च विजयप्रदम् ॥१३॥

Verse

गोमयेन मृदा चैव निर्माय प्रतिवादिनम् । लम्बमानां तस्य जिह्वां कृत्वा च निहया लिपेत् ॥१४॥

Verse

वामपादेन चाक्रम्य तज्जिह्वां कवचं जपेत् । अचिरात्तस्य जिह्वायाः स्तम्भो भवति संसदि ॥१५॥

Verse

वश्यमाकर्षणं चैव स्तम्भनोच्चाटने तथा । द्वेषणं मारणं चैव मन्त्रेणानेन विन्दति ॥१६॥

Verse

विन्यस्तकवचो यस्तु मन्त्रराजेन मन्त्रितम् । भक्षयेत्तु त्वचं तस्य वाक्पतित्वं न संशयः ॥१७॥

Verse

काम्यसिद्धिर्मयोक्ता ते मोक्षसिद्धिं निशामय । यो नवैस्तुलसीपत्रैः सालग्रामशिलार्चनम् ॥१८॥

Verse

कुर्यात्पुरुषसूक्तेन तस्य मोक्षः करे स्थितः ॥

tulasīkavacam
śivaproktaṃ tripurākavacam

Read next

More on तुलसीकवचम्

  • तुलसीकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms