Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

jagannāthakavacam

जगन्नाथकवचम्

Verse

विन्यस्य व्यापकं सर्वैर्न्यासं कुर्यात्समाहितः । प्राणायामत्रयं कुर्यान्मूलेन पञ्चविंशतिम् ॥७७॥

Verse

बध्नीयात्कवचं दिव्यं सर्वपापापनोदनम् । पूर्वे मां पातु गोविन्दो वारिजाक्षस्तु दक्षिणे ॥७८॥

Verse

प्रद्युम्नः पश्चिमे पातु हृषीकेशस्तथोत्तरे । आग्नेय्यां नरसिंहस्तु नैरृत्यां मधुसूदनः ॥७९॥

Verse

वायव्यां श्रीधरः पातु ऐशान्यां च गदाधरः । ऊर्ध्वं त्रिविक्रमः पातु अधो वाराहरूपधृक् ॥२.३०.८०॥

Verse

सर्वत्र पातु मां देवः शङ्खचक्रगदाधरः । नारायणो मनः पातु चैतन्यं गरुडध्वजः ॥८१॥

Verse

पातु मे बुद्ध्यहङ्कारौ त्रिगुणात्मा जनार्दनः । इन्द्रियाणि सदा पातु दैत्यवर्गनिकृन्तनः ॥८२॥

Verse

एवं बद्ध्वा च कवचं निष्पापो जायते पुमान् । षोडशैरुपचारैश्च मनसा कल्पितैर्नरः ॥८३॥

Verse

इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये त्रिंशाध्यायान्तर्गतं जगन्नाथकवचं समाप्तम् । स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय ३०/७८-८२॥

śrīchinnamastākavacam
jaganmaṅgalakavacastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms