Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

caṇḍī kavaca

चण्डी कवच

Verse

देवी कवच विनियोग – ॐ अस्य श्रीदेव्या: कवचस्य ब्रह्मा ऋषि:, अनुष्टुप् छन्द:, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवता, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तय:, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजानि, श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोग: । ऋष्यादि-न्यास – ब्रह्मर्षये नम: शिरसि, अनुष्टुप् छन्दसे नम: मुखे, ख्फ्रें चामुण्डाख्या महा-लक्ष्मी: देवतायै नम: हृदि, ह्रीं ह्रसौं ह्स्क्लीं ह्रीं ह्रसौं अंग-न्यस्ता देव्य: शक्तिभ्यो नम: नाभौ, ऐं ह्स्रीं ह्रक्लीं श्रीं ह्वर्युं क्ष्म्रौं स्फ्रें बीजेभ्यो नम: लिंगे, श्रीमहालक्ष्मी-प्रीतये सर्व रक्षार्थे च पाठे विनियोगाय नम: सर्वांगे । ध्यान- ॐ रक्ताम्बरा रक्तवर्णा, रक्त-सर्वांग-भूषणा । रक्तायुधा रक्त-नेत्रा, रक्त-केशाऽति-भीषणा ॥१॥

Verse

रक्त-तीक्ष्ण-नखा रक्त-रसना रक्त-दन्तिका । पतिं नारीवानुरक्ता, देवी भक्तं भजेज्जनम् ॥२॥

Verse

वसुधेव विशाला सा, सुमेरू-युगल-स्तनी । दीर्घौ लम्बावति-स्थूलौ, तावतीव मनोहरौ ॥३॥

Verse

कर्कशावति-कान्तौ तौ, सर्वानन्द-पयोनिधी । भक्तान् सम्पाययेद् देवी, सर्वकामदुघौ स्तनौ ॥४॥

Verse

खड्गं पात्रं च मुसलं, लांगलं च बिभर्ति सा । आख्याता रक्त-चामुण्डा, देवी योगेश्वरीति च ॥५॥

Verse

अनया व्याप्तमखिलं, जगत् स्थावर-जंगमम् । इमां य: पूजयेद् भक्तो, स व्याप्नोति चराचरम् ॥६॥

Verse

॥मार्कण्डेय उवाच ॥

Verse

ॐॐॐ यद् गुह्यं परमं लोके, सर्व-रक्षा-करं नृणाम् । यन्न कस्यचिदाख्यातं, तन्मे ब्रूहि पितामह ॥१॥

Verse

॥ब्रह्मोवाच ॥

Verse

ॐ अस्ति गुह्य-तमं विप्र सर्व-भूतोपकारकम् । देव्यास्तु कवचं पुण्यं, तच्छृणुष्व महामुने ॥२॥

Verse

प्रथमं शैल-पुत्रीति, द्वितीयं ब्रह्म-चारिणी । तृतीयं चण्ड-घण्टेति, कूष्माण्डेति चतुर्थकम् ॥३॥

Verse

पंचमं स्कन्द-मातेति, षष्ठं कात्यायनी तथा । सप्तमं काल-रात्रीति, महागौरीति चाष्टमम् ॥४॥

Verse

नवमं सिद्धि-दात्रीति, नवदुर्गा: प्रकीर्त्तिता: । उक्तान्येतानि नामानि, ब्रह्मणैव महात्मना ॥५॥

Verse

अग्निना दह्य-मानास्तु, शत्रु-मध्य-गता रणे । विषमे दुर्गमे वाऽपि, भयार्ता: शरणं गता ॥६॥

Verse

न तेषां जायते किंचिदशुभं रण-संकटे । आपदं न च पश्यन्ति, शोक-दु:ख-भयं नहि ॥७॥

Verse

यैस्तु भक्त्या स्मृता नित्यं, तेषां वृद्धि: प्रजायते । प्रेत संस्था तु चामुण्डा, वाराही महिषासना ॥८॥

Verse

ऐन्द्री गज-समारूढ़ा, वैष्णवी गरूड़ासना । नारसिंही महा-वीर्या, शिव-दूती महाबला ॥९॥

Verse

माहेश्वरी वृषारूढ़ा, कौमारी शिखि-वाहना । ब्राह्मी हंस-समारूढ़ा, सर्वाभरण-भूषिता ॥१०॥

Verse

लक्ष्मी: पद्मासना देवी, पद्म-हस्ता हरिप्रिया । श्वेत-रूप-धरा देवी, ईश्वरी वृष वाहना ॥११॥

Verse

इत्येता मातर: सर्वा:, सर्व-योग-समन्विता । नानाभरण-षोभाढया, नाना-रत्नोप-शोभिता: ॥१२॥

Verse

श्रेष्ठैष्च मौक्तिकै: सर्वा, दिव्य-हार-प्रलम्बिभि: । इन्द्र-नीलैर्महा-नीलै, पद्म-रागै: सुशोभने: ॥१३॥

Verse

दृष्यन्ते रथमारूढा, देव्य: क्रोध-समाकुला: । शंखं चक्रं गदां शक्तिं, हलं च मूषलायुधम् ॥१४॥

Verse

खेटकं तोमरं चैव, परशुं पाशमेव च । कुन्तायुधं च खड्गं च, शार्गांयुधमनुत्तमम् ॥१५॥

Verse

दैत्यानां देह नाशाय, भक्तानामभयाय च । धारयन्त्यायुधानीत्थं, देवानां च हिताय वै ॥१६॥

Verse

नमस्तेऽस्तु महारौद्रे ! महाघोर पराक्रमे ! महाबले ! महोत्साहे ! महाभय विनाशिनि ॥१७॥

Verse

त्राहि मां देवि दुष्प्रेक्ष्ये ! शत्रूणां भयविर्द्धनि ! प्राच्यां रक्षतु मामैन्द्री, आग्नेय्यामग्नि देवता ॥१८॥

Verse

दक्षिणे चैव वाराही, नैऋत्यां खड्गधारिणी । प्रतीच्यां वारूणी रक्षेद्, वायव्यां वायुदेवता ॥१९॥

Verse

उदीच्यां दिशि कौबेरी, ऐशान्यां शूल-धारिणी । ऊर्ध्वं ब्राह्मी च मां रक्षेदधस्ताद् वैष्णवी तथा ॥२०॥

Verse

एवं दश दिशो रक्षेच्चामुण्डा शव-वाहना । जया मामग्रत: पातु, विजया पातु पृष्ठत: ॥२१॥

Verse

अजिता वाम पार्श्वे तु, दक्षिणे चापराजिता । शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥२२॥

Verse

मालाधरी ललाटे च, भ्रुवोर्मध्ये यशस्विनी । नेत्रायोश्चित्र-नेत्रा च, यमघण्टा तु पार्श्वके ॥२३॥

Verse

शंखिनी चक्षुषोर्मध्ये, श्रोत्रयोर्द्वार-वासिनी । कपोलौ कालिका रक्षेत्, कर्ण-मूले च शंकरी ॥२४॥

Verse

नासिकायां सुगन्धा च, उत्तरौष्ठे च चर्चिका । अधरे चामृत-कला, जिह्वायां च सरस्वती ॥२५॥

Verse

दन्तान् रक्षतु कौमारी, कण्ठ-मध्ये तु चण्डिका । घण्टिकां चित्र-घण्टा च, महामाया च तालुके ॥२६॥

Verse

कामाख्यां चिबुकं रक्षेद्, वाचं मे सर्व-मंगला । ग्रीवायां भद्रकाली च, पृष्ठ-वंशे धनुर्द्धरी ॥२७॥

Verse

नील-ग्रीवा बहि:-कण्ठे, नलिकां नल-कूबरी । स्कन्धयो: खडि्गनी रक्षेद्, बाहू मे वज्र-धारिणी ॥२८॥

Verse

हस्तयोर्दण्डिनी रक्षेदिम्बका चांगुलीषु च । नखान् सुरेश्वरी रक्षेत्, कुक्षौ रक्षेन्नरेश्वरी ॥२९॥

Verse

स्तनौ रक्षेन्महादेवी, मन:-शोक-विनाशिनी । हृदये ललिता देवी, उदरे शूल-धारिणी ॥३०॥

Verse

नाभौ च कामिनी रक्षेद्, गुह्यं गुह्येश्वरी तथा । मेढ्रं रक्षतु दुर्गन्धा, पायुं मे गुह्य-वासिनी ॥३१॥

Verse

कट्यां भगवती रक्षेदूरू मे घन-वासिनी । जंगे महाबला रक्षेज्जानू माधव नायिका ॥३२॥

Verse

गुल्फयोर्नारसिंही च, पाद-पृष्ठे च कौशिकी । पादांगुली: श्रीधरी च, तलं पाताल-वासिनी ॥३३॥

Verse

नखान् दंष्ट्रा कराली च, केशांश्वोर्ध्व-केशिनी । रोम-कूपानि कौमारी, त्वचं योगेश्वरी तथा ॥३४॥

Verse

रक्तं मांसं वसां मज्जामस्थि मेदश्च पार्वती । अन्त्राणि काल-रात्रि च, पितं च मुकुटेश्वरी ॥३५॥

Verse

पद्मावती पद्म-कोषे, कक्षे चूडा-मणिस्तथा । ज्वाला-मुखी नख-ज्वालामभेद्या सर्व-सन्धिषु ॥३६॥

Verse

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा । अहंकारं मनो बुद्धिं, रक्षेन्मे धर्म-धारिणी ॥३७॥

Verse

प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्र-हस्ता तु मे रक्षेत्, प्राणान् कल्याण-शोभना ॥३८॥

Verse

रसे रूपे च गन्धे च, शब्दे स्पर्शे च योगिनी । सत्वं रजस्तमश्चैव, रक्षेन्नारायणी सदा ॥३९॥

Verse

आयू रक्षतु वाराही, धर्मं रक्षन्तु मातर: । यश: कीर्तिं च लक्ष्मीं च, सदा रक्षतु वैष्णवी ॥४०॥

Verse

गोत्रमिन्द्राणी मे रक्षेत्, पशून् रक्षेच्च चण्डिका । पुत्रान् रक्षेन्महा-लक्ष्मीर्भार्यां रक्षतु भैरवी ॥४१॥

Verse

धनं धनेश्वरी रक्षेत्, कौमारी कन्यकां तथा । पन्थानं सुपथा रक्षेन्मार्गं क्षेमंकरी तथा ॥४२॥

Verse

राजद्वारे महा-लक्ष्मी, विजया सर्वत: स्थिता । रक्षेन्मे सर्व-गात्राणि, दुर्गा दुर्गाप-हारिणी ॥४३॥

Verse

रक्षा-हीनं तु यत् स्थानं, वर्जितं कवचेन च । सर्वं रक्षतु मे देवी, जयन्ती पाप-नाशिनी ॥४४॥

Verse

॥फल-श्रुति ॥

Verse

सर्वरक्षाकरं पुण्यं, कवचं सर्वदा जपेत् । इदं रहस्यं विप्रर्षे ! भक्त्या तव मयोदितम् ॥४५॥

Verse

देव्यास्तु कवचेनैवमरक्षित-तनु: सुधी: । पदमेकं न गच्छेत् तु, यदीच्छेच्छुभमात्मन: ॥४६॥

Verse

कवचेनावृतो नित्यं, यत्र यत्रैव गच्छति । तत्र तत्रार्थ-लाभ: स्याद्, विजय: सार्व-कालिक: ॥४७॥

Verse

यं यं चिन्तयते कामं, तं तं प्राप्नोति निश्चितम् । परमैश्वर्यमतुलं प्राप्नोत्यविकल: पुमान् ॥४८॥

Verse

निर्भयो जायते मर्त्य:, संग्रामेष्वपराजित: । त्रैलोक्ये च भवेत् पूज्य:, कवचेनावृत: पुमान् ॥४९॥

Verse

इदं तु देव्या: कवचं, देवानामपि दुर्लभम् । य: पठेत् प्रयतो नित्यं, त्रि-सन्ध्यं श्रद्धयान्वित: ॥५०॥

Verse

देवी वश्या भवेत् तस्य, त्रैलोक्ये चापराजित: । जीवेद् वर्ष-शतं साग्रमप-मृत्यु-विवर्जित: ॥५१॥

Verse

नश्यन्ति व्याधय: सर्वे, लूता-विस्फोटकादय: । स्थावरं जंगमं वापि, कृत्रिमं वापि यद् विषम् ॥५२॥

Verse

अभिचाराणि सर्वाणि, मन्त्र-यन्त्राणि भू-तले । भूचरा: खेचराश्चैव, कुलजाश्चोपदेशजा: ॥५३॥

Verse

सहजा: कुलिका नागा, डाकिनी शाकिनी तथा । अन्तरीक्ष-चरा घोरा, डाकिन्यश्च महा-रवा: ॥५४॥

Verse

ग्रह-भूत-पिशाचाश्च, यक्ष-गन्धर्व-राक्षसा: । ब्रह्म-राक्षस-वेताला:, कूष्माण्डा भैरवादय: ॥५५॥

Verse

नष्यन्ति दर्शनात् तस्य, कवचेनावृता हि य: । मानोन्नतिर्भवेद् राज्ञस्तेजो-वृद्धि: परा भवेत् ॥५६॥

Verse

यशो-वृद्धिर्भवेद् पुंसां, कीर्ति-वृद्धिश्च जायते । तस्माज्जपेत् सदा भक्तया, कवचं कामदं मुने ॥५७॥

Verse

जपेत् सप्तशतीं चण्डीं, कृत्वा तु कवचं पुर: । निर्विघ्नेन भवेत् सिद्धिश्चण्डी-जप-समुद्भवा ॥५८॥

Verse

यावद् भू-मण्डलं धत्ते ! स-शैल-वन-काननम् । तावत् तिष्ठति मेदिन्यां, जप-कर्तुर्हि सन्तति: ॥५९॥

Verse

देहान्ते परमं स्थानं, यत् सुरैरपि दुर्लभम् । सम्प्राप्नोति मनुष्योऽसौ, महा-माया-प्रसादत: ॥६०॥

Verse

तत्र गच्छति भक्तोऽसौ, पुनरागमनं न हि । लभते परमं स्थानं, शिवेन सह मोदते ॐॐॐ ॥६१॥

Verse

॥ वाराह-पुराणे श्रीहरिहरब्रह्म विरचितं देव्या: कवचम् ॥

śrīnāyikā kavacam
divya mātaṃgī kavaca

Read next

More on चण्डी

  • चण्डिकाष्टकम्Ashtakam
  • चण्डिकाष्टकम्Ashtakam
  • राग पीलू - ताल दीपचंदीDohavali
  • राग जोशी - ताल दीपचन्दीDohavali
  • होरी काफी - ताल दीपचन्दीDohavali
  • होरी काफी- ताल दीपचन्दीDohavali

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms