Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

gurukavacaṃ kaṅkālamālinītantre

गुरुकवचं कङ्कालमालिनीतन्त्रे

Verse

देव्युवाच ॥

Verse

भूतनाथ ! महादेव ! कवचं तस्य मे वद । गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ॥१॥

Verse

ईश्वर उवाच ॥

Verse

अथा ते कथयामीशे ! कवचं मोक्षदायकम् । यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ॥२॥

Verse

ब्रह्मादयोऽपि गिरिजे ! सर्वत्र जयिनः स्मृताः । अस्य प्रसादात् सकला वेदागमपुरःसराः ॥३॥

Verse

कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः । छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः ॥४॥

Verse

छतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्त्तितः । सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥५॥

Verse

वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु । परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! ॥६॥

Verse

परापराख्यो नासां मे परमेष्ठी मुखं सदा । कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः ॥७॥

Verse

बाहू द्वौ सनकानन्दः कुमारानन्द एव च । वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा ॥८॥

Verse

क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम । ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ॥९॥

Verse

सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः । इति ते कथितं भद्रे ! कवचं परमं शिवे ! ॥१०॥

Verse

भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ॥

Verse

अस्यैव पठनाद्देवि ! धारणात्छ्रवणात् प्रिये ! ॥११॥

Verse

जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते । कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! ॥१२॥

Verse

धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा । इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! ॥१३॥

Verse

तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥१४॥

Verse

॥ इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ॥

śrīgurukavacam
śrīgopālakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms