Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

ketukavacam

केतुकवचम्

Verse

ॐ अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य त्र्यम्बक ॠषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजम् । नमः शक्तिः । केतुरिति कीलकम् । केतुकृत पीडा निवारणार्थे, सर्वरोगनिवारणार्थे, सर्वशत्रुविनाशनार्थे, सर्वकार्यसिद्ध्यर्थे, केतुप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीगणेशाय नमः । केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥१॥

Verse

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥२॥

Verse

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः । पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥३॥

Verse

हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः । सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥४॥

Verse

ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः । पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥५॥

Verse

य इदं कवचं दिव्यं सर्वरोगविनाशनम् । सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥६॥

Verse

॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥

śrīkṛṣṇastavanakavacam
śrīkedārakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms