kavaca
kumārīkavacaṃ rudrayāmalottaratantrāntargatam
कुमारीकवचं रुद्रयामलोत्तरतन्त्रान्तर्गतम्
Verse
आनन्दभैरव उवाच -- अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् । त्रैलोक्यं मङ्गलं नाम महापातकनाशकम् ॥१॥
Verse
पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः । शक्रो देवाधिपः श्रीमान् देवगुरुर्बृहस्पतिः ॥२॥
Verse
महातेजोमयो वह्निर्धर्मराजो भयानकः । वरुणो देवपूज्यो हि जलानामधिपः स्वयम् ॥३॥
Verse
सर्वहर्त्ता महावायुः कुबेरः कुञ्जरेश्वरः । धराधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वरः ॥४॥
Verse
न मेरुः प्रभुरेकायाः सर्वेशो निर्मलो द्वयोः । एतत्कवचपाठेन सर्वे भूपा धनाधिपाः ॥५॥
Verse
त्रैलोक्यमङ्गलकुमारीकवचम् -- प्रणवो मे शिरः पातु माया सन्दायिका सती । ललाटोद्र्ध्वं महामाया पातु मे श्रीसरस्वती ॥६॥
Verse
कामाक्षा वटुकेशानी त्रिमूत्तिर्भालमेव मे । चामुण्डा बीजरूपा च वदनं कालिका मम ॥७॥
Verse
पातु मां सूर्यगा नित्यं तथा नेत्रद्वयं मम । कर्णयुग्मं कामबीजं स्वरूपोमातपस्विनी ॥८॥
Verse
रसनाग्रं तथा पातु वाग्देवी मालिनी मम । डामरस्था कामरूपा दन्ताग्रं कुञ्जिका मम ॥९॥
Verse
देवी प्रणवरूपाऽसौ पातु नित्यं शिवा मम । ओष्ठाधरं शक्तिबीजात्मिका स्वाहास्वरूपिणी ॥१०॥
Verse
पायान्मे कालसन्दष्टा पञ्चवायुस्वरूपिणी । गलदेशं महारौद्री पातु मे चापराजिता ॥११॥
Verse
क्षौं बीजं मे तथा कण्ठं रुद्राणी स्वाहयान्विता । हृदयं भैरवी विद्या पातु षोडश सुस्वरा ॥१२॥
Verse
द्वौ बाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका । सर्वमन्त्रस्वरूपं मे चोदरं पीठनायिका ॥१३॥
Verse
पार्श्वयुग्मं तथा पातु कुमारी वाग्भवात्मिका । कैशोरी कटिदेशं मे मायाबीजस्वरूपिणी ॥१४॥
Verse
जङ्घायुग्मं जयन्ती मे योगिनी कुल्लुकायुता । सर्वाङ्गमम्बिकादेवी पातु मन्त्रार्थगामिनी ॥१५॥
Verse
केशाग्रं कमलादेवी नासाग्रं विन्ध्यवासिनी । चिबुकं चण्डिका देवी कुमारी पातु मे सदा ॥१६॥
Verse
हृदयं ललिता देवी पृष्ठं पर्वतवासिनी । त्रिशक्तिः षोडशी देवी लिङ्गं गुह्यं सदावतु ॥१७॥
Verse
श्मशाने चाम्बिका देवी गङ्गागर्भे च वैष्णवी । शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी ॥१८॥
Verse
चतुष्पथे तथा पातु मामेव वज्रधारिणी । शवासनगता चण्डा मुण्डमालाविभूषिता ॥१९॥
Verse
पातु माने कलिङ्गे च वैखरी शक्तिरूपिणी । वने पातु महाबाला महारण्ये रणप्रिया ॥२०॥
Verse
महाजले तडागे च शत्रुमध्ये सरस्वती । महाकाशपथे पृथ्वी पातु मां शीतला सदा ॥२१॥
Verse
रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी । अर्द्धनारीश्वरा पातु मम पादतलं मही ॥२२॥
Verse
नवलक्षमहाविद्या कुमारी रूपधारिणी । कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला ॥२३॥
Verse
पातु मां वरदा वाणी वटुकेश्वरकामिनी इति ते कथितं नाथ कवचं परमाद्भुतम् ॥२४॥
Verse
कुमार्याः कुलदायिन्याः पञ्चतत्त्वार्थपारग यो जपेत् पञ्चतत्त्वेन स्तोत्रेण कवचेन च ॥२५॥
Verse
आकाशगामिनी सिद्धिर्भवेत्तस्य न संशयः ॥२६॥
Verse
वज्रदेही भवेत् क्षिप्रं कवचस्य प्रपाठतः । सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् ॥२७॥
Verse
विवादे व्यवहारे च सङ्ग्रामे कुलमण्डले । महापथे श्मशाने च योगसिद्धो भवेत् स च ॥२८॥
Verse
पठित्वा जयमाप्नोति सत्यं सत्यं कुलेश्वर वशीकरणकवचं सर्वत्र जयदं शुभम् ॥२९॥
Verse
पुण्यव्रती पठेन्नित्यं यतिश्रीमान्भवेद् ध्रुवम् सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् ॥३०॥
Verse
पठेद्यः शृणुयाद्वापि स भवेत्कल्पपादपः । भक्तिं मुक्तिं तुष्टिं पुष्टिं राजलक्ष्मीं सुसम्पदाम् ॥३१॥
Verse
प्राप्नोति साधकश्रेष्ठो धारयित्वा जपेद्यदि । असाध्यं साधयेद्विद्वान् पठित्वा कवचं शुभम् ॥३२॥
Verse
धनिनाञ्च महासौख्यधर्मार्थकाममोक्षदम् । यो वशी दिवसे नित्यं कुमारीं पूजयेन्निशि ॥३३॥
Verse
उपचारविशेषेण त्रैलोक्यं वशमानयेत् । पललेनासवेनापि मत्स्येन मुद्रया सह ॥३४॥
Verse
नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः । माल्येन स्वर्णरजतालङ्कारेण सुचैलकैः ॥३५॥
Verse
पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् । यज्ञदानतपस्याभिः प्रयोगेण महेश्वर ॥३६॥
Verse
स्तुत्वा कुमारीकवचं यः पठेदेकभावतः । तस्य सिद्धिर्भवेत् क्षिप्रं राजराजेश्वरो भवेत् ॥३७॥
Verse
वाञ्छार्थफलमाप्नोति यद्यन्मनसि वर्तते । भूर्जपत्रे लिखित्वा स कवचं धारयेद् हृदि ॥३८॥
Verse
शनिमङ्गलवारे च नवम्यामष्टमीदिने । चतुर्दश्यां पौर्णमास्यां कृष्णपक्षे विशेषतः ॥३९॥
Verse
लिखित्वा धारयेद् विद्वान् उत्तराभिमुखो भवन् । महापातकयुक्तो हि मुक्तः स्यात् सर्वपातकैः ॥४०॥
Verse
योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् । बहुपुत्रान्विता कान्ता सर्वसम्पत्तिसंयुता ॥४१॥
Verse
तथाश्रीपुरुषश्रेष्ठो दक्षिणे धारयेद् भुजे । एहिके दिव्यदेहः स्यात् पञ्चाननसमप्रभः ॥४२॥
Verse
शिवलोके परे याति वायुवेगी निरामयः । सूर्यमण्डलमाभेद्य परं लोकमवाप्नुयात् ॥४३॥
Verse
लोकानामतिसौख्यदं भयहरं श्रीपादभक्तिप्रद । मोक्षार्थं कवचं शुभं प्रपठतामानन्दसिन्धूद्भवम् । पार्थानां कलिकालघोरकलुषध्वंसैकहेतुं जय । ये नाम प्रपठन्ति धर्ममतुलं मोक्षं व्रजन्ति क्षणात् ॥४४॥
Verse
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये नवमपटले कुमारीकवचं सम्पूर्णम् ॥
