Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

kārtavīryakavacakathanam

कार्तवीर्यकवचकथनम्

Verse

नारद उवाच । साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद । त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम् ॥१॥

Verse

अधुना तु महाभाग कार्तवीर्यहनूमतोः । कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे ॥२॥

Verse

सनत्कुमार उवाच । श‍ृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् । कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत् ॥३॥

Verse

सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले । भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते ॥४॥

Verse

महासंवर्तकाम्भोधिभीमरावविराविणि । समुद्धृतमहाछत्रवितानितवियत्पथे ॥५॥

Verse

महारथवरे दीप्तनानायुधविराजिते । सुस्थितं विपुलोदारं सहस्रभुजमण्डितम् ॥६॥

Verse

वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् । किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥७॥

Verse

मुद्रिकोदरबन्धाद्यैर्मौञ्जीनूपुरकादिभिः । भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥८॥

Verse

आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् । धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयम् ॥९॥

Verse

सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् । सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥१०॥

Verse

सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् । दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम् ॥११॥

Verse

रथनागाश्वपादातवृन्दमध्यगमीश्वरम् । वरदं चक्रवर्तीनं सर्वलोकैकपालकम् ॥१२॥

Verse

समानोदितसाहस्रदिवाकरसमद्युतिम् । महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् ॥१३॥

Verse

श्रीमच्चक्रं हरेरंशादवतीर्णं महीतले । सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् ॥१४॥

Verse

अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः । अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥१५॥

Verse

सर्वतोऽस्त्रज्वलद्रूपा दरचर्मासिपाणयः । अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः ॥१६॥

Verse

क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः । प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः ॥१७॥

Verse

श्रीकरीशक्तिसहितो मारीभयविनाशकः । शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ॥१८॥

Verse

महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् । महेषुचापधृक्पातु मम प्राचेतसीं दिशम् ॥१९॥

Verse

यशःकर्या समायुक्तो दैत्यसङ्घविनाशनः । परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम् ॥२०॥

Verse

विद्याकरीसमायुक्तः सुमहद्दुःखनाशनः । पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः ॥२१॥

Verse

धनकर्या समायुक्तो महादुरितनाशनः । इष्वासनेषुधृक्पातु विदिशं मम वायवीम् ॥२२॥

Verse

आयुःकर्या युतः श्रीमान्महाभयविनाशनः । चापेषुधारी शैवीं मे विदिशं परिरक्षतु ॥२३॥

Verse

विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः । दिशमूर्द्ध्वामवतु मे सर्वदुष्टभयङ्करः ॥२४॥

Verse

शङ्खभृत्सुमहाशक्तिसंयुतोऽप्यधरां दिशम् । परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ॥२५॥

Verse

महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः । महायोगीश्वरः पातु सर्वतो मम पद्मभृत् ॥२६॥

Verse

एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः । प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः ॥२७॥

Verse

शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्न्निभाः । शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥२८॥

Verse

तत्पार्षदेश्वराः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ॥२९॥

Verse

एतास्तस्य समाख्याताः सर्वावरणदेवताः । सर्वतो मां सदा पान्तु सर्वशक्तिसमन्विताः ॥३०॥

Verse

हृदये चोदरे नाभौ जठरे गुह्यमण्डले । तेजोरूपाः स्थिताः पान्तु वाञ्छासुखवनद्रुमाः ॥३१॥

Verse

दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥३२॥

Verse

कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः । सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥३३॥

Verse

सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः । नयनं पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥३४॥

Verse

अधरोष्ठौ सदा पातु ब्रह्मज्ञेयो द्विजान्कविः । सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः ॥३५॥

Verse

दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः । भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥३६॥

Verse

कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः । करौ सर्वार्थदः पातु कराग्राणि जगत्प्रियः ॥३७॥

Verse

रेवाम्बुलीलासन्दृप्तो जठरं परिरक्षतु । वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥३८॥

Verse

सहस्रभुजभृत्पृष्टं सप्तद्वीपाधिपः कटिम् । ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः ॥३९॥

Verse

जङ्घे वीराधिपः पातु पातु पादौ मनोजवः । पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु ॥४०॥

Verse

सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् । प्राणादिदशजीवेशान्सर्वशिष्टेष्टदोऽवतु ॥४१॥

Verse

वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे । अनुक्तमपि यत्स्थानं शरीरान्तर्बहिश्च यत् ॥४२॥

Verse

तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः । वज्रात्सारतरं चेदं शरीरं कवचावृतम् ॥४३॥

Verse

बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् । बद्ध्वेदं कवचं दिव्यमभेद्यं हैहयेशितुः ॥४४॥

Verse

विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना । राजमार्गे महादुर्गे मार्गे चौरादिसङ्कुले ॥४५॥

Verse

विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे । सङ्ग्रामे शस्त्रसङ्घाते सिंहव्याघ्रनिषेविते ॥४६॥

Verse

गह्वरे सर्वसङ्कीर्णे सन्ध्याकाले नृपालये । विवादे विपुलावर्ते समुद्रे च नदीतटे ॥४७॥

Verse

परिपन्थिजनाकीर्णे देशे दस्युगणावृते । सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे ॥४८॥

Verse

नानारोगज्वरावेशे पिशाचप्रेतयातने । मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके ॥४९॥

Verse

शारीरे च महादुःखे मानसे च महाज्वरे । आधिव्याधिभये विघ्नज्वालोपद्रवकेऽपि च ॥५०॥

Verse

न भवतु भयं किञ्चित्कवचेनावृतस्य मे । आगुन्तुकामानखिलानस्मद्वसुविलुम्पकान् ॥५१॥

Verse

निवारयतु दोर्दण्डसहस्रेण महारथः । स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान् ॥५२॥

Verse

संरुद्धगतिसामर्थ्यान्करोतु कृतवीर्यजः । सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ॥५३॥

Verse

राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् । खड्गसाहस्रदलितान्सहस्रमुसलार्दितान् ॥५४॥

Verse

चौरादिदुष्टसत्त्वौघान्करोतु कमलेक्षणः । स्वशङ्खनादसन्त्रस्तान्सहस्रारसहस्रभृत् ॥५५॥

Verse

अवतारो हरेः साक्षात्पालयत्वखिलं मम । कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥५६॥

Verse

सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय । किं त्वं स्वपिषि दुष्टघ्न किं तिष्टसि चिरायसि ॥५७॥

Verse

उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव । ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः ॥५८॥

Verse

साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः । दुर्हृदो दुष्टभूपाला दुष्टामात्याश्च पापकाः ॥५९॥

Verse

ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः । सर्वस्वहारिणां ये च पञ्च मायाविनोऽपरे ॥६०॥

Verse

महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये । येऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः ॥६१॥

Verse

ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः । व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ॥६२॥

Verse

छिद्रान्वेषरता नित्यं येऽस्मान्बाधितुमुद्यताः । ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः ॥६३॥

Verse

सहसा विलयं यान्तु दूरादिव विमोहिताः । ये दानवा महादैत्या ये यक्षा ये च राक्षसाः ॥६४॥

Verse

पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः । अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः ॥६५॥

Verse

महालोहितभोक्तारो वेताला ये च गुह्यकाः । गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः ॥६६॥

Verse

डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः । महाव्याघ्रमहामेघा महातुरगरूपकाः ॥६७॥

Verse

महागजा महासिंहा महामहिषयोनयः । ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥६८॥

Verse

महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः । नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः ॥६९॥

Verse

नानारोगकराः क्षुद्रा महावीर्या महाबलाः । वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥७०॥

Verse

माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः । स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥७१॥

Verse

महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः । ऐकाहिका व्द्याहिकाश्च त्र्याहिकाश्च महाज्वराः ॥७२॥

Verse

चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥७३॥

Verse

स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः । कूष्माण्डा जृम्भिका भौमा द्रोणाः सान्निध्यवञ्चकाः ॥७४॥

Verse

भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः । मनोबुद्धीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥७५॥

Verse

महाशना बलिभुजो महाकुणपभोजनाः । दिवाचरा रात्रिचरा ये च सन्ध्यासु दारुणाः ॥७६॥

Verse

प्रमत्ता वाऽप्रमत्ता वै ये मां बाधितुमुद्यताः । ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः ॥७७॥

Verse

सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः । ये सर्पा ये महानागा महागिरिबिलेशयाः ॥७८॥

Verse

कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः । अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः ॥७९॥

Verse

अनेकशतशीर्षाश्च खण्डपुच्छाश्च दारुणाः । महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः ॥८०॥

Verse

आशीविषाः कालकूटा महाहालाहलाह्वयाः । जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥८१॥

Verse

मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः । जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः ॥८२॥

Verse

गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः । नानाविषाश्च ये घोरा महोपविषसंज्ञकाः ॥८३॥

Verse

येऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः । ते सर्वे कार्तवीर्यस्य खड्गसाहस्रदारिताः ॥८४॥

Verse

दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः । मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥८५॥

Verse

सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः । गजास्तुरङ्गा गवया रासभाः शरभा वृकाः ॥८६॥

Verse

शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः । श‍ृगालाः शशकाः श्येना गरुत्मन्तो विहङ्गमाः ॥८७॥

Verse

भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः । उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः ॥८८॥

Verse

नानाभेदकुले जाता नानाभेदाः पृथग्विधाः । येऽस्मान्बाधितुमिच्छन्ति सन्ध्यासु च दिवा निशि ॥८९॥

Verse

ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः । दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ॥९०॥

Verse

ये चाक्षेमप्रदातारः कूटमायाविनश्च ये । मारणोत्सादनोन्मूलद्वेषमोहनकारकाः ॥९१॥

Verse

विश्वासघातका दुष्टा ये च स्वामिद्रुहो नराः । ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः ॥९२॥

Verse

दाहोपघातगरलशस्त्रपातातिदुःखदाः । क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः ॥९३॥

Verse

ईतयो विविधाकारो ये चान्ये दुष्टजातयः । पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम् ॥९४॥

Verse

ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः । दूरादेव क्षयं यान्तु विनष्टबलसाहसाः ॥९५॥

Verse

ये मेघा ये महावर्षा ये वाता याश्च विद्युतः । ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः ॥९६॥

Verse

उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः । सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥९७॥

Verse

राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा । तिथयः सङ्क्रमा मासा हायना युगनायकाः ॥९८॥

Verse

मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः । निधयो ऋग्यजुःसामाथर्वणाश्चैव वह्नयः ॥९९॥

Verse

ऋतवो लोकपालाश्च पितरो देवसंहतिः । विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये ॥१००॥

Verse

ये त्वत्र कीर्तिताः सर्वे ये चान्ये नानुकीर्तिताः । ते सन्तु नः सदा सौम्याः सर्वकालसुखावहाः ॥१०१॥

Verse

आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः । कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥१०२॥

Verse

दशास्यदर्पहा रेवालीलादृप्तः सुदुर्जयः । दुःखहा चौरदमनो राजराजेश्वरः प्रभुः ॥१०३॥

Verse

सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती । राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ॥१०४॥

Verse

विजयी विश्वजिद्वाग्मी महागतिरलोलुपः । यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः ॥१०५॥

Verse

माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः । सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥१०६॥

Verse

शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगिवल्लभः । महाभागवतो धीमान्महाभयविनाशनः ॥१०७॥

Verse

असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः । जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविक्रमः ॥१०८॥

Verse

चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः । सर्वशास्त्रकलाधारी विरजा लोकवन्दितः ॥१०९॥

Verse

वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः । विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः ॥११०॥

Verse

खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः । भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥१११॥

Verse

महाधनो निधिपतिर्महायोगी गुरुप्रियः । योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः ॥११२॥

Verse

दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः । सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः ॥११३॥

Verse

योगसिद्धो महाकायो महावृन्दशताधिपः । सर्वज्ञाननिधिः सर्वसिद्धिदानकृतोद्यमः ॥११४॥

Verse

इत्यष्टशतनामोक्त्या मूर्तयो दश दिक्पथि । सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा ॥११५॥

Verse

स्वस्थाः सर्वेन्द्रियाः सन्तु शान्तिरस्तु सदा मम । शेषाद्या मूर्तयोऽष्टौ च विक्रमेणैव भास्वराः ॥११६॥

Verse

अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा । मम सौख्यमसम्बाधमारोग्यमपराजयः ॥११७॥

Verse

दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखोदयः । वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम् ॥११८॥

Verse

अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः । भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः ॥११९॥

Verse

अनष्टद्रव्यता चैव नष्टस्य पुनरागमः । दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम् ॥१२०॥

Verse

अप्रधृष्यतमत्वं च महासामर्थ्यमेव च । सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् ॥१२१॥

Verse

य इदं कार्तवीर्यस्य कवचं पुण्यवर्द्धनम् । सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥१२२॥

Verse

सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् । विजयार्थप्रदं नॄणां सर्वसम्पत्प्रदं शुभम् ॥१२३॥

Verse

श‍ृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् । चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः ॥१२४॥

Verse

सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः । सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥१२५॥

Verse

सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् । देवासुरनिभं चापि परचक्रं निवारयेत् ॥१२६॥

Verse

विवादे कलहे घोरे पञ्चधा यः पठेदिदम् । विजयो जायते तस्य न कदाचित्पराजयः ॥१२७॥

Verse

सर्वरोगप्रपीडासु त्रेधा वा पञ्चधा पठेत् । स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥१२८॥

Verse

सम्यग्द्वादशधा रात्रौ प्रजपेद्बन्धमुक्तये । त्रिदिनान्निगडाद्बद्धो मुच्यते नात्र संशयः ॥१२९॥

Verse

अनेनैव विधानेन सर्वसाधनकर्मणि । असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥१३०॥

Verse

यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् । न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः ॥१३१॥

Verse

जपन्नासेचनं कुर्वञ्जलेनाञ्जलिना तनौ । न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥१३२॥

Verse

कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥१३३॥

Verse

रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥१३४॥

Verse

सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा । यः सेवते सदा विप्र श्रीमच्चक्रावतारकम् ॥१३५॥

Verse

तस्य रक्षां सदा कुर्याच्चक्रं विष्णोर्महात्मनः । मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात् ॥१३६॥

Verse

श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम् ॥१३७॥

Verse

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमोऽध्यायः ॥७७॥

Verse

बृहन्नारदीयपुराण ॥

śrīkāmeśvarakavacam
śrīkārtavīryārjunakavacastotramahāmantraḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms