kavaca
īśvara uvāca
ईश्वर उवाच
Verse
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥१॥
Verse
उमा देवी शिरः पातु ललाटं शूलधारिणी । चक्षुषी खॆचरी पातु वदनं सर्वधारिणी ॥२॥
Verse
जिह्वां च चण्डिका देवी ग्रीवां सौभद्रिका तथा । अशोकवासिनी चेतॊ द्वौ बाहू वज्रधारिणी ॥३॥
Verse
हृदयं ललिता देवी उदरं सिंहवाहिनी । कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥४॥
Verse
महाबाला च जङ्घॆ द्वे पादौ भूतलवासिनी एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके । रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ॥५॥
