aSTottaranAma
śrīlakṣmyaṣṭottaraśatanāmastotram
श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्
Verse
एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य सहस्रनामस्तोत्रस्याङ्गभूतम् ।
Verse
ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी । सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥१॥
Verse
सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा । संविन्मयी सदाचारा सदातुष्टा सदानता ॥२॥
Verse
कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी । हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥३॥
Verse
सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी । महाक्रोधा महातर्षा महर्षिजनसेविता ॥४॥
Verse
कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता । कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥५॥
Verse
कासारनाभिः का सा याऽऽप्येषेयत्ताविवर्जिता । अन्तिकस्थाऽतिदूरस्था हृदयस्थाऽम्बुजस्थिता ॥६॥
Verse
मुनिचित्तस्थिता मौनिगम्या मान्धातृपूजिता । मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुका ॥७॥
Verse
महीस्थिता च मध्यस्था द्युस्थिताऽधःस्थितोर्ध्वग । भूतिर्विभूतिः सुरभिः सुरसिद्धार्तिहारिणी ॥८॥
Verse
अतिभोगाऽतिदानाऽतिरूपाऽतिकरुणाऽतिभाः । विज्वरा वियदाभोगा वितन्द्रा विरहासहा ॥९॥
Verse
शूर्पकारातिजननी शून्यदोषा शुचिप्रिया । निःस्पृहा सस्पृहा नीलासपत्नी निधिदायिनी ॥१०॥
Verse
कुम्भस्तनी कुन्दरदा कुङ्कुमालेपिता कुजा । शास्त्रज्ञा शास्त्रजननी शास्त्रज्ञेया शरीरगा ॥११॥
Verse
सत्यभास्सत्यसङ्कल्पा सत्यकामा सरोजिनी । चन्द्रप्रिया चन्द्रगता चन्द्रा चन्द्रसहोदरी ॥१२॥
Verse
औदर्यौपयिकी प्रीता गीता चौता गिरिस्थिता । अनन्विताऽप्यमूलार्तिध्वान्तपुञ्जरविप्रभा ॥१३॥
Verse
मङ्गला मङ्गलपरा मृग्या मङ्गलदेवता ।
Verse
कोमला च महालक्ष्मीः नाम्नामष्टोत्तरं शतम् ।
Verse
फलश्रुतिः नारद उवाच- इत्येवं नामसाहस्रं साष्टोत्तरशतं श्रियः । कथितं ते महाराज भुक्तिमुक्तिफलप्रदम् ॥१॥
Verse
भूतानामवताराणां तथा विष्णोर्भविष्यताम् । लक्ष्म्या नित्यानुगामिन्याः गुणकर्मानुसारतः ॥२॥
Verse
उदाहृतानि नामानि सारभूतानि सर्वतः । इदन्तु नामसाहस्रं ब्रह्मणा कथितं मम ॥३॥
Verse
उपांशुवाचिकजपैः प्रीयेतास्य हरिप्रिया । लक्ष्मीनामसहस्रेण श्रुतेन पठितेन वा ॥४॥
Verse
धर्मार्थी धर्मलाभी स्यात् अर्थार्थी चार्थवान् भवेत् । कामार्थी लभते कामान् सुखार्थी लभते सुखम् ॥५॥
Verse
इहामुत्र च सौख्याय लक्ष्मीभक्तिहितङ्करी । इदं श्रीनामसाहस्रं रहस्यानां रहस्यकम् ॥६॥
Verse
गोप्यं त्वया प्रयत्नेन अपचारभयाच्छ्रियः । नैतद्व्रात्याय वक्तव्यं न मूर्खाय न दम्भिने ॥७॥
Verse
न नास्तिकाय नो वेदशास्त्रविक्रयकारिणे । वक्तव्यं भक्तियुक्ताय दरिद्राय च सीदते ॥८॥
Verse
सकृत्पठित्व श्रीदेव्याः नामसाहस्रमुत्तमम् । दारिद्र्यान्मुच्यते पुर्वं जन्मकोटिभवान्नरः ॥९॥
Verse
त्रिवारपठनादस्याः सर्वपापक्षयो भवेत् । पञ्चचत्वारिंशदहं सायं प्रातः पठेत्तु यः ॥१०॥
Verse
तस्य सन्निहिता लक्ष्मीः किमतोऽधिकमाप्यते । अमायां पौर्णमास्यां च भृगुवारेषु सङ्क्रमे ॥११॥
Verse
प्रातः स्नात्वा नित्यकर्म यथाविधि समाप्य च स्वर्णपात्रेऽथ रजते कांस्यपात्रेऽथवा द्विजः ॥१२॥
Verse
निक्षिप्य कुङ्कुमं तत्र लिखित्वाऽष्टदलाम्बुजम् । कर्णिकामध्यतो लक्ष्मीं बीजं साधु विलिख्य च ॥१३॥
Verse
प्रागादिषु दलेष्वस्य वाणीब्राह्म्यादिमातृकाः । विलिख्य वर्णतोऽथेदं नामसाहस्रमादरात् ॥१४॥
Verse
यः पठेत् तस्य लोकस्तु सर्वेऽपि वशगास्ततः । राज्यलाभः पुत्रपौत्रलाभः शत्रुजयस्तथा ॥१५॥
Verse
सङ्कल्पादेव तस्य स्यात् नात्र कार्या विचारणा । अनेन नामसहस्रेणार्चयेत् कमलां यदि ॥१६॥
Verse
कुङ्कुमेनाथ पुष्पैर्वा न तस्य स्यात्पराभवः । उत्तमोत्तमता प्रोक्ता कमलानामिहार्चने ॥१७॥
Verse
तदभावे कुङ्कुमं स्यात् मल्लीपुष्पाञ्जलिस्ततः । जातीपुष्पाणि च ततः ततो मरुवकावलिः ॥१८॥
Verse
पद्मानामेव रक्तत्वं श्लाघितं मुनिसत्तमैः । अन्येषां कुसुमानान्तु शौक्ल्यमेव शिवार्चने ॥१९॥
Verse
प्रशस्तं नृपतिश्रेष्ठ तस्माद्यत्नपरो भवेत् । किमिहात्र बहूक्तेन लक्ष्मीनामसहस्रकम् ॥२०॥
Verse
वेदानां सरहस्यानां सर्वशास्त्रगिरामपि । तन्त्राणामपि सर्वेषां सारभूतं न संशयः ॥२१॥
Verse
सर्वपापक्षयकरं सर्वशत्रुविनाशनम् । दारिद्र्यध्वंसनकरं पराभवनिवर्तकम् ॥२२॥
Verse
विश्लिष्टबन्धुसंश्लेषकारकं सद्गतिप्रदम् । तन्वन्ते चिन्मयात्म्यैक्यबोधादानन्ददायकम् ॥२३॥
Verse
लक्ष्मीनामसहस्रं तत् नरोऽवश्यं पठेत्सदा । योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥२४॥
Verse
अकारादिक्षकारान्तनामभिः पूजयेत्सुधीः । तस्य सर्वेप्सितार्थसिद्धिर्भवति निश्चितम् ॥२५॥
Verse
श्रियं वर्चसमारोग्यं शोभनं धान्यसम्पदः । पशूनां बहुपुत्राणां लाभश्च सम्भावेद्ध्रुवम् ॥२६॥
Verse
शतसंवत्सरं विंशत्युतरं जीवितं भवेत् । मङ्गलानि तनोत्येषा श्रीविद्यामङ्गला शुभा ॥२७॥
Verse
इति नारदीयोपपुराणान्तर्गतं श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
