Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīdakṣiṇāmūrtyaṣṭottaraśatanāmastotram

श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीमेधादक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम् मूलमन्त्रवर्णाद्यात्मकं श्रीदेव्युवाच - भगवन्देवदेवेश मन्त्रार्णस्तवमुत्तमम् । दक्षिणामूर्तिदेवस्य कृपया वद मे प्रभो ॥१॥

Verse

श्रीमहादेव उवाच - साधु पृष्टं महादेवि सर्वलोकहिताय ते । वक्ष्यामि परमं गुह्यं मन्त्रार्णस्तवमुत्तमम् ॥२॥

Verse

ऋषिश्छन्दो देवताङ्गन्यासादिकमनुत्तमम् । मूलमन्त्रवदस्यापि द्रष्टव्यं सकलं हि तत् ॥३॥

Verse

ध्यानम् - भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला- वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः । व्याख्यापीठे निषण्णे मुनिवरनिकरैः सेव्यमानः प्रसन्नः स्व्याळः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥४॥

Verse

इति ध्यात्वा महादेवं मन्त्रार्णस्तवमुत्तमम् । जपेत् त्रिसन्ध्यं नियतो भस्मरुद्राक्षभूषितह ॥५॥

Verse

ॐ ओङ्काराचलसिंहेन्द्रः ओङ्कारध्यानकोकिलः । ओङ्कारनीडशुकराड् ओङ्कारार्णवकुञ्जरः ॥६॥

Verse

नगराजसुताजानिर्नगराजनिजालयः । नवमाणिक्यमालाढ्यो नवचन्द्रशिखामणिः ॥७॥

Verse

नन्दिताशेषमौनीन्द्रो नन्दीशादिमदेशिकः । मोहानलसुधासारो मोहाम्बुजसुधाकरः ॥८॥

Verse

मोहान्धकारतरणिर्मोहोत्पलनभोमणिः । भक्तज्ञानाब्धिशीतांशुः भक्ताज्ञानतृणानलः ॥९॥

Verse

भक्ताम्भोजसहस्रांशुः भक्तकेकिघनाघनः । भक्तकैरवराकेन्दुः भक्तकोकदिवाकरः ॥१०॥

Verse

गजाननादिसम्पूज्यो गजचर्मोज्ज्वलाकृतिः । गङ्गाधवलदिव्याङ्गो गङ्गाभङ्गलसज्जटः ॥११॥

Verse

गगनाम्बरसंवीतो गगनामुक्तमूर्धजः । वदनाब्जजिताब्जश्रीः वदनेन्दुस्फुरद्दिशः ॥१२॥

Verse

वरदानैकनिपुणो वरवीणोज्ज्वलत्करः । वनवाससमुल्लासो वनवीरैकलोलुपः ॥१३॥

Verse

तेजःपुञ्जघनाकारो तेजसामपि भासकः । तेजःप्रदो विनेयानां तेजोमयजनाश्रयः ॥१४॥

Verse

दमितानङ्गसङ्ग्रामो दरहासजिताङ्गनः । दयारससुधासिन्धुः दरिद्रधनशेवधिः ॥१५॥

Verse

क्षीरेन्दुस्फटिकाकारः क्षीणेन्दुमकुटोज्ज्वलः । क्षीरोपहाररसिकः क्षिप्रैश्वर्यफलप्रदः ॥१६॥

Verse

नानाभरणमुग्धाङ्गो नारीसम्मोहनाकृतिः । नादब्रह्मरसास्वादी नागभूषणभूषितः ॥१७॥

Verse

मूर्तिनिन्दितकन्दर्पो मूर्तामूर्तजगद्वपुः । मूकाज्ञानतमोभानुः मूर्तिमत्कल्पपादपः ॥१८॥

Verse

तरुणादित्यसङ्काशः तन्त्रीवादनतत्परः । तरुमूलैकनिलयः तप्तजाम्बूनदप्रभः ॥१९॥

Verse

तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचनः । यमसन्नुतसत्कीर्तिः यमसंयमसंयुतः ॥२०॥

Verse

यतिरूपधरो मौनी यतीन्द्रोपास्यविग्रहः । मन्दारहाररुचिरो मदनायुतसुन्दरः ॥२१॥

Verse

मन्दस्मितलसद्वक्त्रो मधुराधरपल्लवः । मञ्जीरमञ्जुपादाब्जो मणिपट्टोलसत्कटिः ॥२२॥

Verse

हस्ताङ्कुरितचिन्मुद्रो हठयोगपरोत्तमः । हंसजप्याक्षमालाढ्यो हंसेन्द्राराध्यपादुकः ॥२३॥

Verse

मेरुशृङ्गतटोल्लासो मेघश्याममनोहरः । मेधाङ्कुरालवालाग्र्यो मेधपक्वफलद्रुमः ॥२४॥

Verse

धार्मिकान्तर्गुहावासो धर्ममार्गप्रवर्तकः । धामत्रयनिजारामो धर्मोत्तममनोरथः ॥२५॥

Verse

प्रबोधोदारदीपश्रीः प्रकाशितजगत्त्रयः । प्रज्ञाचन्द्रशिलादर्शः प्रज्ञामणिवराकरः ॥२६॥

Verse

ज्ञानान्तरभासात्मा ज्ञातृज्ञातिविदूरगः । ज्ञानाद्वैतसुदिव्याङ्गो ज्ञातृज्ञातिकुलागतः ॥२७॥

Verse

प्रपन्नपारिजाताग्र्यः प्रणतार्त्यब्धिवाडवः । प्रमाणभूतो भूतानां प्रपञ्चहितकारकः ॥२८॥

Verse

यत्तत्वमसिसंवेद्यो यक्षगेयात्मवैभवः । यज्ञादिदेवतामूर्तिः यजमानवपुर्धरः ॥२९॥

Verse

छत्राधिपतिविश्वेशः छत्रचामरसेवितः । छान्दश्शास्त्रादिनिपुणश्छलजात्यादिदूरगः ॥३०॥

Verse

स्वाभाविकसुखैकात्मा स्वानुभूतरसोदधिः । स्वाराज्यसम्पदध्यक्षः स्वात्माराममहामतिः ॥३१॥

Verse

हाटकाभजटाजूटो हासोदस्तारमण्डलः । हालाहलोज्ज्वलगळो हारायुतमनोहरः ॥३२॥

Verse

इति श्रीमेधादक्षिणामूर्तिमनुवर्णाद्यादिमा श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

śrīdakṣiṇāmūrti aṣṭottaraśatanāmastotra
śrīdurgāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms