Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīgaurāṅgāṣṭottaraśatanāmastotram

श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्

Verse

नमस्कृत्य प्रवक्ष्यामि देवदेवं जगद्गुरुम् । नाम्नामष्टोत्तरशतं चैतन्यस्य महात्मनाः ॥१॥

Verse

विश्वम्भरो जितक्रोधो मायामानुषविग्रहः । अमायी मायिनां श्रेष्ठो वरदेशो द्विजोत्तमः ॥२॥

Verse

जगन्नाथप्रियसुतः पितृभक्तो महामनाः । लक्ष्मीकान्तः शचीपुत्रः प्रेमदो भक्तवत्सलः ॥३॥

Verse

द्विजप्रियो द्विजवरो वैष्णवप्राणनायकः । द्विजातिपूजकः शान्तः श्रीवासप्रिय ईश्वरः ॥४॥

Verse

तप्तकाञ्चनगौराङ्गः सिंहग्रीवो महाभुजः । पीतवासा रक्तपट्टः षड्भुजोऽथ चतुर्भुजः ॥५॥

Verse

द्विभुजश्च गदापाणिः चक्री पद्मधरोऽमलः । पाञ्चजन्यधरः शार्ङ्गी वेणुपाणिः सुरोत्तमः ॥६॥

Verse

कमलाक्षेश्वरः प्रीतो गोपलीलाधरो युवा । नीलरत्नधरो रुप्यहारी कौस्तुभभूषणः ॥७॥

Verse

श्रीवत्सलाञ्छनो भास्वान् मणिधृक्कञ्जलोचनः । ताटङ्कनीलश्रीः रुद्र लीलाकारी गुरुप्रियाः ॥८॥

Verse

स्वनामगुणवक्ता च नामोपदेशदायकः । आचाण्डालप्रियाः शुद्धः सर्वप्राणिहिते रतः ॥९॥

Verse

विश्वरूपानुजः सन्ध्यावतारः शीतलाशयः । निःसीमकरुणो गुप्त आत्मभक्तिप्रवर्तकः ॥१०॥

Verse

महानन्दो नटो नृत्यगीतनामप्रियः कविः । आर्तिप्रियः शुचिः शुद्धो भावदो भगवत्प्रियाः ॥११॥

Verse

इन्द्रादिसर्वलोकेशवन्दितश्रीपदाम्बुजः । न्यासिचूडामणिः कृष्णः संन्यासाश्रमपावनः ॥१२॥

Verse

चैतन्यः कृष्णचैतन्यो दण्डधृङ्न्यस्तदण्डकः । अवधूतप्रियो नित्यानन्दषड्भुजदर्शकः ॥१३॥

Verse

मुकुन्दसिद्धिदो दीनो वासुदेवामृतप्रदः । गदाधरप्राणनाथ आर्तिहा शरणप्रदः ॥१४॥

Verse

अकिञ्चनप्रियः प्राणो गुणग्राही जितेन्द्रियः । अदोषदर्शी सुमुखो मधुरः प्रियदर्शनः ॥१५॥

Verse

प्रतापरुद्रसन्त्राता रामानन्दप्रियो गुरुः । अनन्तगुणसम्पन्नः सर्वतीर्थैकपावनः ॥१६॥

Verse

वैकुण्ठनाथो लोकेशो भक्ताभिमतरूपधृक् । नारायणो महायोगी ज्ञानभक्तिप्रदः प्रभुः ॥१७॥

Verse

पीयूषवचनः पृथ्वी पावनः सत्यवाक्सहः । ओडदेशजनानन्दी सन्दोहामृतरूपधृक् ॥१८॥

Verse

यः पठेत्प्रातरुत्थाय चैतन्यस्य महात्मनः ।

Verse

श्रद्धया परयोपेतः स्तोत्रं सर्वाघनाशनम् । प्रेमभक्तिर्हरौ तस्य जायते नात्र संशयः ॥१९॥

Verse

असाध्यरोगयुक्तोऽपि मुच्यते रोगसङ्कटात् । सर्वापराधयुक्तोऽपि सोऽपराधात्प्रमुच्यते ॥२०॥

Verse

फाल्गुनीपौर्णमास्यां तु चैतन्यजन्मवासरे ।

Verse

श्रद्धया परया भक्त्या महास्तोत्रं जपन्पुरः । यद्यत् प्रकुरुते कामं तत्तदेवाचिराल्लभेत् ॥२१॥

Verse

अपुत्रो वैष्णवं पुत्रं लभते नात्र संशयः । अन्ते चैतन्यदेवस्य स्मृतिर्भवति शाश्वती ॥२२॥

Verse

इति सार्वभौम भट्टाचार्यविरचितं श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

śrīgodāṣṭottaraśatanāmastotram
gaurīpatiśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms