aSTottaranAma
mātaṅgyaṣṭottaraśatanāmastotram
मातङ्ग्यष्टोत्तरशतनामस्तोत्रम्
Verse
(अथ श्रीकालीविलासतन्त्रे सप्तदशपटलः ।) श्रीतामस उवाच ।
Verse
मातङ्गी शतनामानो-दानीं कलिमते शृणु । यस्य प्रसादा दीशोहं पार्वति प्राणवल्लभे ॥१॥
Verse
अस्य श्रीमातङ्गी शतनामस्तोत्रस्य श्रीकृष्ण ऋषिर्गायत्रीच्छन्दः श्रीमातङ्गी देवता चतुर्वर्ग सिद्धये विनियोगः ॥
Verse
ॐ माधवी मथुरा मत्ता माननीया मदोद्धता । मान्या च मानदात्री च मनीषा मानमोहिनी ॥२॥
Verse
मथुरा माधवी मध्या मानसी मनमोहिनी । माधुरा मानयोग्या च मत्तमातङ्गगामिनी ॥३॥
Verse
मेनका मानवी मेधा मदना मदनोत्तरा । मत्ता प्रमत्ता मदना मोदना मदनोद्धता ॥४॥
Verse
माननी मानयोग्या च मेखला मरमोहिनी । मनोरूपा उन्मनी च माषामेधामदोद्धता ॥५॥
Verse
निमेषा निर्निमेषा च मानगी मथुरा तथा । मदमत्ता महामत्ता मानदा मधुसूदनी ॥६॥
Verse
मतिर्माता महालक्ष्मीर्नित्या मदनपीडिता । मेघविद्युत्प्रभाकाशा मेघानन्दप्रवर्द्धिनी ॥७॥
Verse
मदना मदरूपा च मुनिगुह्या मुनिस्तुता । अर्थरूपा महामेधा माया मत्ता स्वरूपिणी ॥८॥
Verse
मुकुन्दपूजिता मौनी मौनव्रतपरायणा । मेधा मेधावती मध्या मदना मदनातुरा ॥९॥
Verse
मानुषी च मनोरूपा महामोहस्वरूपिणी । तरणी तरुणी तारा तारिणी तरलेक्षणा ॥१०॥
Verse
तुरोया च तथा तुथ्या तुल्या च तामसी तिथिः । तीर्थातीर्थ मयी तीर्थरूपिणी तामसान्तरा ॥११॥
Verse
तपस्या तापसी तापा तपना तुलना इति । गोलोकवासिनी गम्या गुणज्ञा गुणरूपिणी ॥१२॥
Verse
गौरी च गोपिनी गौरा गानागानस्वरूपिणी । गिरीशा गिरिशा गन्धा गगणा गगणेश्वरी ॥१३॥
Verse
ईकाररूपिणी नित्या ईश्वरी ईश्वरप्रिया । सङ्गृह्य इति ते देवि शतनाम इतीरितम् ॥१४ त्रिसन्ध्य यः पठेन्नित्यं तस्य सिद्धिर्न संशयः ॥१५॥
Verse
इति श्रीकालीविलासतन्त्रे श्रीमातङ्गीशतनामस्तोत्रं समाप्तम् ।
Verse
ॐ तत्सदित्यादि ।
Verse
इति श्रीकालीविलासतन्त्रे सप्तदशपटलः समाप्तः ।
