Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

sūryamaṇḍalāṣṭakam

सूर्यमण्डलाष्टकम्

Verse

सवित्रे जगदेकचक्षुषे ।

Verse

जगत्प्रसूती स्थिति नाश हेतवे ।

Verse

त्रयीमयाय त्रिगुणात्म धारिणे । विरञ्चि नारायण शङ्करात्मन् ॥१॥

Verse

यन्मण्डलं दीप्तिकरं विशालं ।

Verse

रत्नप्रभं तीव्रमनादि रूपम् ।

Verse

दारिद्र्य दुखक्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥२॥

Verse

यन्मण्डलं देव गणैः सुपूजितं ।

Verse

विप्रैः स्तुतं भावनमुक्ति कोविदम् ।

Verse

तं देवदेवं प्रणमामि सूर्यं । पुनातु मां तत्सवितुर्वरेण्यम् ॥३॥

Verse

यन्मण्डलं ज्ञान घनं त्वगम्यं ।

Verse

त्रैलोक्य पूज्यं त्रिगुणात्म रूपम् ।

Verse

समस्त तेजोमय दिव्यरूपं । पुनातु मां तत्सवितुर्वरेण्यम् ॥४॥

Verse

यन्मण्डलं गुढ़मति प्रबोधं ।

Verse

धर्मस्य वृद्धिं कुरुते जनानाम् ।

Verse

यत्सर्व पाप क्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥५॥

Verse

यन्मण्डलं व्याधि विनाश दक्षं ।

Verse

यदृग्यजुः सामसु संप्रगीतम् ।

Verse

प्रकाशितं येन भूर्भुवः स्वः । पुनातु मां तत्सवितुर्वरेण्यम् ॥६॥

Verse

यन्मण्डलं वेदविदो वदन्ति ।

Verse

गायन्ति यच्चारण सिद्ध सङ्घाः ।

Verse

यद्योगिनो योगजुषां च सङ्घाः । पुनातु मां तत्सवितुर्वरेण्यम् ॥७॥

Verse

यन्मण्डलं सर्वजनेषु पूजितं ।

Verse

ज्योतिश्चकुर्यादिह मर्त्यलोके ।

Verse

यत्कालकल्प क्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥८॥

Verse

यन्मण्डलं विश्वसृजं प्रसीदमुत्पत्तिरक्षा प्रलय प्रगल्भम् ।

Verse

यस्मिञ्जगत्संहरतेऽखिलं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥९॥

Verse

यन्मण्डलं सर्वगतस्य विष्णोरात्मा ।

Verse

परं धाम विशुद्धतत्त्वम् ।

Verse

सूक्ष्मान्तरैर्योगपथानुगम्ये । पुनातु मां तत्सवितुर्वरेण्यम् ॥१०॥

Verse

यन्मण्डलं वेदविदो विदन्ति ।

Verse

गायन्ति तच्चारणसिद्ध सङ्घाः ।

Verse

यन्मण्डलं वेदविदो स्मरन्ति । पुनातु मां तत्सवितुर्वरेण्यम् ॥११॥

Verse

यन्मण्डलं वेदविदोपगीतं ।

Verse

यद्योगिनां योग पथानुगम्यम् ।

Verse

तत्सर्व वेदं प्रणमामि सूर्यं । पुनातु मां तत्सवितुर्वरेण्यम् ॥१२॥

dhanyāṣṭakaṃ
sudarśanāṣṭakaṃ

Read next

More on सूर्यमण्डलाष्टकम्

  • श्रीसूर्यमण्डलाष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms