aSTakam
saṅkaṭā nāmāṣṭakam
सङ्कटा नामाष्टकम्
Verse
आनन्दकानने देवी सङ्कटा नाम विश्रुता । वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च ॥१॥
Verse
शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणां । सङ्कटा प्रथमं नाम द्वितीयं विजया तथा ॥२॥
Verse
तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी । शर्वाणी पञ्चमं नाम षष्ठं कार्त्यायनी तथा ॥३॥
Verse
सप्तमं भीमनयना सर्वरोगहराष्टमं नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः यः पठेत् पाठयेद्वापि नरो मुच्येत सङ्कटात् ॥४॥
