Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīrāmakṛṣṇaṣaṭkam

श्रीरामकृष्णषट्कम्

Verse

विशुद्धविज्ञानमगाधसौख्यं विश्वस्य बीजं करुणापयोधिः । अनाद्यनन्तं प्रकृतेः परस्तात् तत्तत्त्वमेकं भुवि रामकृष्णः ॥१॥

Verse

न नेति भीत्या श्रुतयो वदन्ति वदन्ति साक्षान्न च यं कदाचित् । चिदेकरूपः शिव ईश्वराणां महेश्वरोऽसौ भुवि रामकृष्णः ॥२॥

Verse

यं नित्यमानन्दमनन्तमेकं शिवेति नाम्ना श्रुतयो गृणन्ति । तस्यावतारो नररूपधारी कृपासुधाब्धिर्भुवि रामकृष्णः ॥३॥

Verse

विज्ञानपीयूषनिमग्नमूर्तिः पस्पर्श यान् यान् दयया करेण । ते कामिनीकाञ्चनरिक्तचित्ताः सद्यो बभूवुर्भुवि रामकृष्णाः ॥४॥

Verse

प्रेमाब्धिगम्भीरतरङ्गभङ्गै- रान्दोलितो यो भगवद्विलीनः । भक्तिर्विशुद्धा स्वयमाविरासीत् पुंविग्रहोऽहो भुवि रामकृष्णः ॥५॥

Verse

तमद्भुतं कञ्चिदचिन्त्यशक्तिं वन्दे प्रशान्तं परिपूर्णबोधम् । ज्ञानस्य भक्तेश्च विशुद्धमूर्तिं द्विमूर्तिमेकं भुवि रामकृष्णम् ॥६॥

śrībhavasodaryaṣṭakam (śṛṅgeri śrījagadguru (śrīsaccidānandaśivābhinava- nṛsiṃhabhāratīsvāmibhiḥ viracitam)
śrīsāradādevyaṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms