aSTakam
śrīrāghavāṣṭakam
श्रीराघवाष्टकम्
Verse
राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते । देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥१॥
Verse
राघवं करुणाकरं मुनिसेवितं सुरवन्दितं जानकीवदनारविन्ददिवाकरं गुणभाजनम् । वालिसूनुभृदीक्षणं हनुमत्प्रियं कमलेक्षणं यातुधानभयंकरं प्रणमामि राघवकुञ्जरम् ॥२॥
Verse
मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं रावणानुजपालनं रघुपुङ्गवं मम दैवतम् । मेदिनीतनयामुखाम्बुजबोधकारिदिवाकरं सूर्यवंशविवर्द्धनं प्रणमामि राघवकुञ्जरम् ॥३॥
Verse
हेमकुण्डलमण्डितामलगण्डदेशमरिन्दमं शातकुंभमयूरनेत्रविभूषणेन विभूषितम् । चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं भानुवंशविवर्द्धनं प्रणमामि राघवकुञ्जरम् ॥४॥
Verse
दण्डकाख्यवने रतं सुरसिद्धयोगिगणाश्रयं शिष्टपालनतत्परं धृतिशालिवालिकृतस्तुतिम् । कुंभकर्णभुजाभुजङ्गविकर्तने सुविशारदं लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥५॥
Verse
केतकीकरवीरजातिसुगन्धमाल्यसुशोभितं श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसं । देवदेवमशेषभूतमनोहरं जगतां पतिं दासभूतजनावनं प्रणमामि राघवकुञ्जरम् ॥६॥
Verse
यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः वेदपारगतैरहर्निशमादरेण सुपूजितं । ताटकावधधीरमङ्गदनाथवालिनिषूदनं पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥७॥
Verse
लीलया खरदूषणादिनिशाचरासुविनाशिनं रावणान्तकमच्युतं हरियूथकोटिसमावृतं । नीरजाननमम्बुजाङ्घ्रियुगं हरिं भुवनाश्रयं देवकार्यविचक्षणं प्रणमामि राघवकुञ्जरम् ॥८॥
Verse
कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं चारुहासमनाथबन्धुमशेषलोकनिवासिनं । वासवादिसुरारिरावणशासनं च परां गतिं नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम् ॥९॥
Verse
राघवाष्टकमिष्टसिद्धिदमच्युतालयसाधकं भुक्तिमुक्तिफलप्रदं धनधान्यपुत्रविवर्धनम् । रामचन्द्रकृपाकटाक्षदमादरेण सदा पठेत् रामचन्द्रपदाम्बुजद्वयसन्ततार्पितमानसः ॥१०॥
Verse
निगमसरसिरत्नं नित्यमासक्तरत्नं निखिलसुकृतिरत्नं जानकीरूपरत्नम् । भुवनवलयरत्नं भूभृतामेकरत्नं प्रकृतिसुलभरत्नं मैथिलीप्राणरत्नम् ॥११॥
