Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīgoviṃdāṣṭakam

श्रीगोविंदाष्टकम्

Verse

सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् ।

Verse

गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।

Verse

मायाकल्पितनानाकारमनाकारं भुवनाकारम् । क्ष्माया नाथमनाथं प्रणमत गोविंदं परमानंदम् ॥१॥

Verse

मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् ।

Verse

व्यदितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।

Verse

लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् । लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥२॥

Verse

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।

Verse

कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।

Verse

वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् । शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥३॥

Verse

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।

Verse

गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।

Verse

गोभिर्निगदित गोविंदस्फुतनामानं बहुनामानम् । गोपीगोचरपथिकं प्रणमत गोविंदं परमानंदम् ॥४॥

Verse

गोपीमंडलगोष्ठिभेदं भेदावस्थमभेदाभम् ।

Verse

शश्वद्गोखुरनिर्घूतोद्धतधूलीधूसरसौभाग्यम् ।

Verse

श्रद्धाभक्तिगृहीतानंदमचिन्त्यं चिंतितसद्भावम् । चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥५॥

Verse

स्नानव्याकुलयोशिद्वस्त्रमुपादायागमुपारूढम् ।

Verse

व्यदित्संतिरथ दिग्वस्त्रा ह्युपुदातुमुपाकर्षंतम् ।

Verse

निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतस्थम् । सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥६॥

Verse

कांतं कारणकारणमादिमनादिं कालमनाभासम् ।

Verse

कालिंदीगतकालियशिरसि मुहुर्नृत्यंतं नृत्यंतम् ।

Verse

कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् । कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥७॥

Verse

वृंदावनभुवि वृंदारकगणवृन्दाराध्यं वंदेऽहम् ।

Verse

कुंदाभामलमंदस्मेरसुधानंदं सुहृदानंदम् ।

Verse

वंद्याशेषमहामुनिमानसवंद्यानंदपदद्वंद्वम् । वंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥८॥

Verse

गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यो ।

Verse

गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।

Verse

गोविंदाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो । गोविंदं परमानंदामृतमंतःस्थं स तमभ्येति ॥

Verse

॥इति श्रीमच्छङ्कराचार्यविरचितं श्रीगोविंदाष्टकं संपूर्णम् ॥

śrīgaṇeśāya namaḥ ॥
śrīgaṇeśāya namaḥ ॥

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms