Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīgaṇeśāya namaḥ ॥

श्रीगणेशाय नमः ॥

Verse

जयदेवसमूहनुते जमदग्निमुनेर्दयिते । जननं विबुधावनि ते जगतामुपकारकृते ॥१॥

Verse

विपिने विप्ने विनुता नगरे नगरे नमिता । जयति स्थिरचित्तहिता जमदग्निमुनेर्वनिता ॥२॥

Verse

मतिकैरविणीन्दुकला मम हृत्कमले कमला । जयति स्तुतिदूरबला जमदग्निवधूर्विमला ॥३॥

Verse

कलिपक्षजुषां दमनी कलुषप्रततेः शमनी । जयति स्तुवतामवनी जगतामवतुर्जननी ॥४॥

Verse

निखिलामयतापहरी निजसेवकभव्यकरी । जमदग्निनदोपझरी जयतीश्वरचिल्लहरी ॥५॥

Verse

सकलामयनाशचणे सततं स्मरतः सुगुणे । मम कार्यगतेः प्रथमं मरणं न भवत्वधमम् ॥६॥

Verse

॥इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः रेणुकाषट्कम् समाप्तम् ॥

maṇikarṇikāṣṭakam
varāhamukhīstavaḥ tathā vārāhyanugrahāṣṭakam

Read next

More on श्रीगणेशाय नमः

  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms