Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīgaṇeśāya namaḥ ॥

श्रीगणेशाय नमः ॥

Verse

गणपतिपरिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् । भवभयपरिहारं दुःखदारिद्र्यदूरं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥१॥

Verse

अखिलमलविनाशं पाणिना हस्तपाशं कनकगिरिनिकाशं सूर्यकोटिप्रकाशम‌ । भज भवगिरिनाशं मालतीतीरवासं गणपतिमभिवंदे मानसे राजहंसम् ॥२॥

Verse

विविधमणिमयूखैः शोभमानं विदूरैः कनकरचितचित्रं कण्ठदेशे विचित्रम् । दधति विमलहारं सर्वदा यत्नसारं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥३॥

Verse

दुरितगजममन्दं वारुणीं चैव वेदं विदितमखिलनादं नृत्यमानन्दकन्दम् । दधति शशिसुवक्त्रं चांकुशं यो विशेष गणपतिमभिवन्दे सर्वदानन्दकन्दम् ॥४॥

Verse

त्रिनयनयुतभाले शोभमाने विशाले मुकुटमणिसुढाले मौक्तिकानां च जाले । धवलकुसुममाले यस्य शीर्ष्णः सताले गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥५॥

Verse

वपुषि महति रूपं पीठमादौ सुदीपं तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् । गजमितदलपद्मं संस्थितं चारुछद्मं गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥६॥

Verse

वरदविशदशस्तं दक्षिणं यस्य हस्तं सदयमभयदं तं चिन्तये चितसंस्थम् । शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥७॥

Verse

कल्पद्रुमाधःस्थितकामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम् । बिभ्राणमत्यद्भुतचित्ररूपं यः पूजयेत्तस्य समस्तसिद्धीः ॥८॥

Verse

व्यासाष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् । पठतां दुःखनाशाय विद्यां सश्रियमश्नुते ॥९॥

ardhanārīśvarāṣṭakam
śrīgaṇeśāya namaḥ ॥

Read next

More on श्रीगणेशाय नमः

  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms