Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīgaṇeśāya namaḥ ॥

श्रीगणेशाय नमः ॥

Verse

ध्यानम् ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां सद्यः सङ्कटतारिणीं गुणमयीमारक्तवर्णां शुभाम् ।

Verse

अक्ष-स्रग्-जलपूर्णकुम्भ-कमलं शंखं गदा बिभ्रतीं त्रैशूलं डमरूश्च खड्ग-विधृतां चक्राभयाढ्यां पराम् ॥ॐ नारद उवाच जैगीषव्य मुनिश्रेष्ठ सर्वज्ञ सुखदायक । आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः ॥१॥

Verse

न तृप्तिमधिगच्छामि तव वागमृतेन च । वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् ॥२॥

Verse

इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः । सङ्कष्टनाशनं स्तोत्रं शृणु देवर्षिसत्तम ॥३॥

Verse

द्वापरे तु पुरा वृत्ते भ्रष्टराज्यो युधिष्ठिरः । भ्रातृभिः सहितो राज्यनिर्वेदं परमं गतः ॥४॥

Verse

तदानीं तु ततः काशीं पुरीं यातो महामुनिः मार्कण्डेय इति ख्यातः सह शिष्यैर्महायशाः ॥५॥

Verse

तं दृष्ट्वा स समुत्थाय प्रणिपत्य सुपूजितः । किमर्थं म्लानवदन एतत्त्वं मां निवेदय ॥६॥

Verse

युधिष्ठिर उवाच सङ्कष्टं मे महत्प्राप्तमेतादृग्वदनं ततः । एतन्निवारणोपायं किंचिद्ब्रूहि मुने मम ॥७॥

Verse

मार्कण्डेय उवाच आनन्दकानने देवी सङ्कटा नाम विश्रुता । वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च ॥८॥

Verse

शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणाम् । सङ्कटा प्रथमं नाम द्वितीयं विजया तथा ॥९॥

Verse

तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी । शर्वाणी पञ्चमं नाम षष्ठं कात्यायनी तथा ॥१०॥

Verse

सप्तमं भीमनयना सर्वरोगहराऽष्टमम् । नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥११॥

Verse

यः पठेत्पाठयेद्वापि नरो मुच्येत सङ्कटात् । इत्युक्त्वा तु द्विजश्रेष्ठमृषिर्वाराणसीं ययौ ॥१२॥

Verse

इति तस्य वचः श्रुत्वा नारदो हर्षनिर्भरः । ततः सम्पूजितां देवीं वीरेश्वरसमन्विताम् ॥१३॥

Verse

भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम् । मालाकमण्डलुयुतां पद्मशङ्खगदायुताम् ॥१४॥

Verse

त्रिशूलडमरुधरां खड्गचर्मविभूषिताम् । वरदाभयहस्तां तां प्रणम्य विधिनन्दनः ॥१५॥

Verse

वारत्रयं गृहीत्वा तु ततो विष्णुपुरं ययौ । एतत्स्तोत्रस्य पठनं पुत्रपौत्रविवर्धनम् ॥१६॥

Verse

सङ्कष्टनाशनं चैव त्रिषु लोकेषु विश्रुतम् । गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥१७॥

Verse

॥ इति श्रीपद्मपुराणे सङ्कष्टनाशनं सङ्कटाष्टकं सम्पूर्णम् ॥

śrīgaṇeśāya namaḥ ॥
kamalāpatyaṣṭakam

Read next

More on श्रीगणेशाय नमः

  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms