aSTakam
śrī śanaiścarāṣṭakam
श्री शनैश्चराष्टकम्
Verse
कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ॥१॥
Verse
सुरासुराः किंपुरुषोरगेन्द्राः गन्धर्व विद्याधरपन्नगाश्च पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥२॥
Verse
नरा नरेन्द्राः पशवो मृगेन्द्राः वन्याश्च ये कीटपतङ्गभृङ्गाः । पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥३॥
Verse
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि । पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥४॥
Verse
तिलैर्यवैर्माषगुडान्नदानैः लोहेन नीलांबरदानतो वा । प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय ॥५॥
Verse
श् प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायां यो योगिनां ध्यानगतोऽपि सूक्ष्मः तस्मै नमः श्रीरविनन्दनाय ॥६ अन्यप्रदेशात् स्वगृहं प्रविष्टः तदीयवारे स नरः सुखी स्यात् । गृहाद्गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय ॥७॥
Verse
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी एकस्त्रिधा ऋग्यजुस्सममूर्तिः तस्मै नमः श्रीरविनन्दनाय ॥८॥
Verse
शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च । पठेत् तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते ॥९॥
Verse
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः । एतानि दश नामानि प्रातरुत्थाय यः पठेत् शनैश्चरकृता पीडा न कदाचिद् भविष्यति ॥१०॥
