Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

nirvāṇaṣaṭkam

निर्वाणषट्कम्

Verse

मनोबुध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥१॥

Verse

न च प्राणसंज्ञो न वै पञ्चवायु- र्नवा सप्तधातुर्न वा पञ्चकोशः । न वाक्पाणिपादं न चोपस्थपायु- श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥२॥

Verse

न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥३॥

Verse

न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥४॥

Verse

न मृत्युर्न शङ्का न मे जातिभेदः पिता नैव मे न माता न जन्म । न बन्धुर्न मित्रं गुरुर्नैवशिष्य- श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥५॥

Verse

अहं निर्विकल्पो निराकाररूपः विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् । न चासंगतो नैव मुक्तिर्न मेय- श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥६॥

maṅgalāṣṭakam
śrīvaradarājāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms