Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

goṣṭheśvarāṣṭakam

गोष्ठेश्वराष्टकम्

Verse

सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित श्रीचिद्व्योम्नि चिदर्करूपममलं यद् ब्रह्म तत्त्वं परम् । निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक संभूतं सत् पुरतो विभात्यहह तद्गोष्ठेशलिङ्गात्मना ॥१॥

Verse

सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला चिच्छक्तिर्जडशक्तिकैतववशात् काञ्चीनदीत्वं गता । वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा ॥२॥

Verse

श्रीमद्राजतशैलशृङ्गविलसच्छ्रीमद्गुहायां मही वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिङ्गाकृतिः । सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे वल्मीके किल गोष्ठनायकमहालिङ्गात्मना भासते ॥३॥

Verse

यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः तत्तद्दिव्यगुहासु सन्ति यमिदृग्दृश्या महावैभवाः । यत्रैव ध्वनिरर्धरात्रसमये पुण्यात्मभिः श्रूयते पूजावाद्यसमुत्थितः सुमनसां तं राजताद्रिं भजे ॥४॥

Verse

श्रीमद्राजतपर्वताकृतिधरस्यार्धेन्दुचूडामणे- र्लोमैकं किल वामकर्णजनितं काञ्चीतरुत्वं गतम् । तस्मादुत्तरवाहिनी भुवि भवान्याख्या ततः पूर्वगा काञ्चीनद्यभिधा च पश्चिमगता निलानदी पावनी ॥५॥

Verse

श्रीमद्भार्गवहस्तलग्नपरशुव्याघट्टनाद् दारिते क्षोणीध्रे सति वामदक्षिणगिरिद्वन्द्वात्मना भेदिते । तन्मध्यप्रथिते विदारधरणीभागेतिनद्याश्रये सा नीलातटिनी पुनाति हि सदा कल्पादिगान् प्राणिनः ॥६॥

Verse

कल्पादिस्थलमध्यभागनिलये श्रीविश्वनाथाभिधे लिङ्गे पिप्पिलकाननान्तरगतश्रीगोष्ठनाथाभिधः । श्रीशंभुः करुणानिधिः प्रकुरुते सांनिध्यमन्यादृशं तत्पत्नी च विराजतेऽत्र तु विशालाक्षीति नामाङ्किते ॥७॥

Verse

श्रीकाञ्चीतरुमूलपावनतलं भ्राजत्त्रिवेण्युद्भवं त्यक्त्वान्यत्र विधातुमिच्छति मुहुर्यस्तीर्थयात्रादिकम् । सोऽयं हस्तगतं विहाय कुधिया शाखाग्रलीनं वृथा यष्ट्या ताडितुमीहते जडमतिर्निःसारतुच्छं फलम् ॥८॥

Verse

श्रीमद्राजतशैलोत्थत्रिवेणीमहिमाङ्कितम् । गोष्ठेश्वराष्टकमिदं सारज्ञैरवलोक्यताम् ॥९॥

Verse

॥ इति गोष्ठेश्वराष्टकं संपूर्णम् ॥

candraśekharāṣṭakam
kālabhairavāṣṭakaṃ

Read next

More on गोष्ठेश्वराष्टकम्

  • गोष्ठेश्वराष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms