Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

abhilāṣāṣṭakam

अभिलाषाष्टकम्

Verse

कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम् रमासंश्लिष्टांगं गगनरुचमापीतवसनम् । गदाशंखाम्भोजारिवरमालोक्य सुचिरं गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥१॥

Verse

कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये समासीनं पीठे जलधितनयालिंगिततनुम्। स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम् स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥२॥

Verse

कदा मामाभीतं भयजलधितस्तापसतनुं गता रागं गंगातटगिरिगुहावाससहनम् । लपन्तं हे विष्णो सुरवर रमेशेति सततं समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥३॥

Verse

कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन् सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ । स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥४॥

Verse

कदा मे भोगाशा निबिडभवपाशादुपरतं तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् । मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥५॥

Verse

कदा मे संरुद्धाखिलकरणजालस्य परितो जिताशेषप्राणानिलपरिकरस्य प्रजपतः । सदोंकारं चित्तं हरिपदसरोजे धृतवतः समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥६॥

Verse

कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने । वदत्यूर्ध्वं शश्वन्मम वदनकंजे मुहुरहो करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥७॥

Verse

कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः । घनश्यामो दूतैर्गगनगतिनीतो नतिपरै- र्गमिष्यामीशस्यांतिकमखिलदुःखांतकमिति ॥८॥

Verse

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं अभिलाषाष्टकं संपूर्णम् ॥

sudarśanāṣṭakaṃ
śivanāmāvalyaṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms